Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 14
________________ प्रकरणम् ६५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । ११ श्रालम्भ्यो गौः । २८४६ उपात्प्रशंसायाम् । ( ७-१-६६ ) उपलम्भ्यः साधुः । स्तुतौ किम् - उपलब्धुं शक्य उपलभ्यः । २८४७ शक्सिहोश्च । ( ३-१-६६ ) शक्यम् । सह्यम् । २८४८ गमदचरयमश्चानुपसर्गे । ( ३-१-१०० ) गद्यम् । मद्यम् । चर्यम् । 'चरेराङि चागुरौ ' ( वा ११२५ ) । श्राचर्यो देशः, गन्तव्य इत्यर्थः । अगुरौ किम् - आचार्यो गुरुः । यमेर्नियमार्थम्, सोपसर्गान्मा भूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव, 'तेन तत्र न भवेद्विनिय 1 विवक्षिते तत्प्रवृत्तः प्रागेव नुमि कृते श्रदुपधत्वाभावाद्यत्प्रत्ययस्याप्रवृत्ते सूर्यदेवेत्यर्थः । यति परे नुमित्यर्थे तु ऋदुपधत्वाद् यदेव स्याद् न तु रायदिति भावः । श्रालम्भ्यो गौरिति । यद्यपि यत्ण्यतोनं रूपभेदः, तथापि यति कृते तित्स्वरितम् । इति खरितत्वम् । यति तु 'यतोऽनाव:' इत्यायुदात्तत्वमिति स्वरभेदः फलम् । उपात्प्रशंसायाम् । उपात्परस्य लभेर्नुम् स्याद् यादौ प्रत्यये विवक्षिते प्रशंसायां गम्यमानायामित्यर्थः उपलम्भ्यः साधुरिति । समीपे प्राप्य इत्यर्थः । साधुशब्दात् प्रशंसा गम्यते । इहापि नुमि कृते अदुपधत्वाभावाद् रयदेव स्वरे विशेषः पूर्ववत् । शकिसहोश्च । पञ्चम्यर्थे षष्ठी । आभ्यां यदित्यर्थः । रयतोऽपवादः । गदमद । गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः । अनुपसर्ग इति सप्तमी पञ्चम्यर्थे । एभ्यो ऽनुपसर्गेभ्यो यदित्यर्थः । ण्यतोऽपवादः । उपसर्गाद् यदेव । प्रगाद्यमित्यादि । चरेराङि चागुराविति । वार्तिकमिदम् । श्राङि उपसर्गे सत्यपि वरेर्यत्स्यादगुरौ इत्यर्थः । आचार्यो गुरुरिति । शुश्रूषणीय इत्यर्थः । ननु 'पोरदुपधात्' इत्येव सिद्धे यमेरिह प्रहणंत्र्यर्थमित्यत श्राह यमेर्नियमार्थमिति । अनुपसर्गादेव यमेदिति नियमार्थमित्यर्थः । तत्फलमाह सोपसर्गान्मा भूदिति । ' नायुक्तिः' इत्यत्र 'त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादौ च निपूर्वाद्यमेः कथं तत्वेनोत्तरपदायुदात्तत्वं प्रसज्येत तच्चानिष्टमिति भावः । उपात्प्रशंसायाम् । यादौ प्रत्यये विवक्षित उपपूर्वाल्लभेर्नुम् स्यात्प्रशंसायाम् । सा चेह गम्यमानतया विशेष - म् । धात्वर्थस्तु प्राप्तिरेव तेन यस्य प्राप्तिर्यस्माद्वा प्राप्तिः प्रशंसाहेतुर्भवति तदिहोदाहरणम् । विपरीतं तु प्रत्युदाहरणम् । इहापि यादौ प्रत्यये विवक्षित इत्यर्थान्नुमि कृते रायति सत्यन्तस्वरितत्वं भवति । यति तु सत्युत्तरपदायुदात्तत्वं स्यात् । प्राचा तु स्वरे विशेषमनालोच्य 'पोरदुपधात्' इति यतमेव स्वीकृत्य यति परे नुमिति व्याख्यातं तदाकरविरोधादुपेच्यमित्याहुः । गदमद् । व्यत्ययेन पञ्चम्यर्थे सप्तमी । एभ्योऽनुपसर्गेभ्यो यत्स्याद् रयतोऽपवादः । अनुपसर्गे किम्, 'न नैषधे कार्यभिदं निगाद्यम' इति श्रीहर्षः । यमेरिति । 'पोरदुपधात्' इत्यनेनैव सिद्धेरिति भावः ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 716