Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 8
________________ प्रकरणम् ६५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५ क्रीवत्वं च चेतन्यश्चयनीयो वा धर्मस्वया । 'वसेस्तव्यस्कर्तरि णिच्च' (वा १९२०)। वसतीति वास्तव्यः । 'केलिमर उपसंख्यानम्' ( वा १६१६ ) । पचेलिमा माषाः, पम्याः । भिदेलिमाः सरलाः, भेत्तव्याः । कर्मणि प्रत्ययः । वृत्तिकारस्तु 'कर्मकरि चायमिष्यते' इत्याह । तद्भाष्यविरुद्धम् । २८३५ कृत्यचः । (८-3-२६) उपसर्गस्थानिमित्तात्परस्याच उत्तरस्य कृरस्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् -प्रमग्नः । 'निर्विरणस्योपसं. ख्यानम्' (वा ५००४ ) । प्रचः परस्वाभावादप्राप्ते वचनम् । परस्य णत्वम् , पूर्वस्य ष्टुत्वम् , निर्विरणः । २८३६ णेर्विभाषा । (८-४-३०) उपसर्गस्थान्नित्वरूपस्यात्र 'तयोरेव कृत्य-' इति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसंख्यान्वयोऽनुपपन्न इत्यत आह भावे औत्सर्गिकमेकवचन मिति । 'एकवचनम् , द्विबहुए द्विबहुवचने' इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः । क्लीबत्वं चेति । 'एकश्रुतिः स्वरसर्वनाम, लिङ्गसर्वनाम नपुंसकम' इति 'दाण्डिनायन-' इति सूत्रस्थभाष्यादिति भावः । कर्मण्यु. दाहरति चेतव्य इति । 'वसेस्तव्यत् कर्तरि णिच्च' इति वार्तिकम् । वास्तव्य इति । वस्तेत्यर्थः । णित्त्वादुपधावृद्धिः । केलिमर इति । धातोरित्येव । भावकर्मणोरेवेदम् । केलिगरि ककारेफावितौ । भिदेलिमा इति । कित्त्वान्नोपधागुणः । सरला वृक्षविशेषाः । तद्भाष्येति । भाष्ये भिदेलिमा इत्युदाहृत्य भेत्तव्या इत्येव विवरणादिति भावः । कृत्यचः। 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादनोत्परः' इत्यत उपसर्गादिति च । उपसर्गस्थादिति विवक्षितम् । कृतीत्यनन्तरं विद्यमानस्येति शेषः। अच इति पञ्चमी, तदाह उपसर्गस्थादिति । असमानपदत्वादप्राप्तौ वचनम् । 'अट्कुप्व नुम् व्यवायेऽपि' इत्यनुवर्तते. तदाह प्रयाणीयमिति । निर्विराणस्यति । मस्य ण इत्युपसंख्यानमित्यर्थः । अचः परत्वाभावादिति । विदेः क्तप्रत्यये 'रदाभ्याम्-' इति दकारादुत्तरस्य तकारस्य पूर्वदस्य च नत्वे निर्विन न इति स्थिते नकारस्ट अचः परत्वाभावात् 'कृत्यचः' इति अप्राप्ते णत्वे इदं णत्ववचनमित्यर्थः । नकारेण व्यवधानाच्च णत्वस्याप्राप्तिर्बोध्या। पूर्वस्येति । नस्य इति स्वरितत्वार्थः । फस्तु 'उपोत्तमं रिति' इति मध्योदात्तार्थः । कृत्यचः। उपसर्गादित्यनुवर्तते पाभ्यामिति च। तत्र तात्स्थ्यात्ताच्छब्द्यमित्याह उपसर्गस्थादिति । कृत्स्थस्य नस्येति । अच उत्तरस्येत्यस्य कृतो विशेषणत्व तु प्रयापणमित्यादौ न स्यादिति भावः। प्रमग्न इति । 'टुमस्जो शुद्धौ' 'श्रोदितश्च' इति निष्ठानत्वम् , तस्यासिद्ध वात् 'स्को:-' इति सलोपे 'चोः कुः' । निर्विराणस्येति ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 716