Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 7
________________ ४ सिद्धान्तकौमुदी। [ भ्वादि. अथ भ्वादिप्रकरणम् । तत्रादौ दश लकाराः प्रदर्श्यन्ते-लट् , लिट् , लुट , लृट् , लेट, लोट् , लङ्, लिङ् , लुङ्, लुङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः । २१५१ वर्तमाने लद् । (३-२-१२३ ) वर्तमानक्रियावृत्तेर्धातोर्लट स्यात् । अटाविती। चतुर्थपञ्चमाध्यायवर्तिप्रत्ययनिरूपणानन्तरं तृतीयाध्यायगोचराः प्रत्ययाः कथ्यन्त इत्यन्वयः । तृतीयाध्यायस्य गोचराः प्रतिपाद्यतया विषयाः। तृतीयाध्यायविहिता इति यावत् । कृत्सु 'ण वः स्त्रियामञ्' इत्यादितद्धितव्युत्पादनं तु प्रास जैकमिति भावः । तत्रेति । निर्धारणसप्तम्यन्तात्त्रल् । तेषु तृतीयाध्यायवर्तिप्रत्ययेष्वित्यर्थः । दशेति । अनुबन्धभेदाल्लकारभेद इति भावः । पञ्चम इति। लेडित्यर्थः । छन्दो. मात्रेति । 'लिङर्थे लेट्' इत्यत्र 'छन्दसि लुङ्लब्लिटः' इति पूर्वसूत्रात् 'छन्दसि' इत्यनुवृत्तरिति भावः । एतेन लेड्रपाणि इह कुतो न प्रदर्श्यन्त इति शङ्का निरस्ता । वर्तमाने लट् । धातोरिति सूत्रमातृतीयाध्यायसमाप्तेरधिकृतम् । वर्तमाने इति तत्रान्वेति । वर्तमानेऽर्थे विद्यमानाद्धातोः लडिति लभ्यते । फलितमाह वर्तमानक्रियावृत्तेरिति । धात्वर्थक्रियाया वर्तमानत्वं तु वर्तमानकाल वृत्तित्वम् । कालस्य तु वर्तमानत्वम् अतीतानांगतभिन्न कालत्वम् । 'भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानः कालः' इति भाष्यम् । वर्तमानत्वं च न प्रत्ययार्थभूतकादिनिशेषणम् . अतीतपाकादिकिये कर्तरि वर्तमाने पचति इत्याद्यापत्तेः। किंतु धात्वर्थविशेषणमेव वर्तमानत्वम् । लट तु तस्य द्योतक एव । अटाविताविति । न च प्रकार चारणार्थ एवास्त्विति अथेति । इहापि कृत्सु 'णचः स्त्रियामञ्' 'अणिनुणः' इत्यत्रादिव्युत्पादनं प्रासङ्गिक बोध्यम्, प्राधान्येन तु तृतीयाध्यायस्था एवेहोच्यन्त इति भावः । अनुबन्धभेदेन भेदमाश्रित्याह दश लकारा इति । प्रदर्श्यन्त इति । यद्यपि पञ्चमलकाररूपारायधुना न व्युत्पाद्यन्ते तथापि लकारः स्वरूपेण प्रदर्श्यते 'लः कर्मणि च भावे चाकर्मकेभ्यः' 'लस्य' इत्यादिसूत्रविषयतां व्युत्पादयितुमिति भावः । पञ्चम इति । लेडित्यर्थः । ललिडिति खोक्तामापेक्षयैव लेटः पञ्चमत्वम् , न तु सूत्रोक्तकमेणेति बोध्यम् । वर्तमाने लट् । वर्तमान इत्येतत्प्रकृत्यर्थविशेषणमित्य ह वर्तमानक्रियावृत्तेर्धातोरिति । धातोरिति सूत्रमातृतीयाध्यायान्तमधिक्रियत इति भावः । लट् स्यादिति । तस्य वाच्यं त्वमनुपदमेव स्फुटीभविष्यति । वर्तमानकालस्तु न तद्वाच्यः, किंतु द्योत्य एव । लिडादिष्वपि भूतादिकालो यथायथं द्यो य एवेल्यवगन्तव्यम् । वस्तुतस्तु वाच्यत्वाभ्युपगमोऽपि सुगम इति विध्यादिसूत्रे वयानः । अटाविता.

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 714