Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 5
________________ २ ] सिद्धान्तकौमुदी । [ स्वादि ताभ्यां वित्ताः श्रौत्रान्तीचणाः, तैरिति विग्रहः । ' तेन वित्तशचुञ्चुप्चणपौ' इति चणप् । वेदाध्येतृत्वेन वेदविहितकर्मयोग्यतया च प्रसिद्धैरिति यावत् । गुण्यैरिति । नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसम्पत्तिः, मुमुक्षुत्वमित्यादिप्रशस्तगुणसम्पन्नैरित्यर्थः । ' रूपादाहत प्रशंसयो :-' इति सूत्रे 'अन्येभ्योऽपि दृश्यते' इति वार्तिकेन यप् प्रत्ययः, तद्भाष्ये 'गुण्या ब्राह्मणाः' इत्युदाहरणात् । महर्षिभिरिति । महान्तश्च ते ऋषयश्चेति कर्मधारयः । ‘आन्महतः-' इत्यात्वम् । अतितपस्विभिरित्यर्थः । अहर्दिवमिति । श्रश्व दिवा चेति वीप्सायाम् 'अ चतुर -' इत्यादिना द्वन्द्वो निपातितः। श्रहन्यहनीत्यर्थः । तोष्टुय्यमानोऽपीति । 'टुव् स्तुतौ' सकर्मकः । गुणवत्त्वेनाभिधानं स्तुतिः । श्रभिधानक्रियानिरूपितं कर्मत्वमादाय देवान् स्तोतीत्यादौ द्वितीया । न तु गुणाभिधानमेव स्तुतिः, तथा सति गुणस्य धात्वर्थोपसंगृहीतत्वेनाकर्मकत्वापत्तेः । ' धात्वादेः षः सः' इति षकारस्य सकारे ष्टुत्वनिवृत्तौ ' धातोरे काचः' इति भृशार्थे यङि 'अकृत्सार्वधातुकयोः' इति दीर्घे, 'सन्यङोः' इति द्वित्वे, 'शर्पूर्वाः खयः' इति सकारस्याभ्यासगत्स्य लोपे, 'गुणो यङ्लुकोः' इत्यभ्यासोकारव्य गुणे, ततः परस्य सस्य 'आदेशप्रत्यययोः' इति षत्वे, टुत्वेन तकारस्य टकारे, तोष्ट्येति यङन्तात् 'सनाद्यन्ताः -' इति धातुसंज्ञकात् कर्मणि लटश्शानचि 'आने मुक्' इति मुगागमे, 'सार्वधातुके यक्' इति यकि, यङोऽकारस्य 'तो लोपः' इति लोपे, तोष्ट्रय्यमान इति रूपम् । भृशं स्तृयमानोऽपीत्यर्थः । ङीष 'हलस्तद्धितस्य' इति यलोपः । ताभ्यां वित्तैः श्रोत्रान्तीचणैः । 'तेन वित्तः- ' इति चण । श्रोत्रियत्वयोग्यत्वाभ्यां प्रसिद्धैरित्यर्थः । किं च गुरायैर्गुणवद्भिः । प्रशस्तगुणयुक्तैरिति यावत् । ' रूपादाहत प्रशंसयोः -' इति सूत्रे 'अन्येभ्योऽपि दृश्यते' इत्युक्त्वा 'गुण्या ब्राह्मणाः' इत्यस्य भाष्यादावुदाहृतत्वात् । ग्रहर्दिवमिति । अहन्यहनि, प्रत्यहमित्यर्थः । श्रचतुर -' इत्यादिना निपातनात्साधुः तोष्ट्र्य्यमान इति । स्तौतेर्यङन्तात्कर्मणि शानच्, 'सार्वधातुके यक्' इति धातोयक्, 'आने मुक्' इति मुक् । श्रपिशब्देन श्रापाततो विरोधं द्योतयति । वस्तुतस्तु न विरोधः । स्तुतिप्रयोजकीभूतानामनन्तकल्याणगुणानां श्रुतिस्मृतिसिद्धत्वेऽपि वियदा देवद्यावहारिकत्वात्तदभावस्य पारमार्थिकत्वात् । एतच्चोत्तरमीमांसायां स्पष्टमेव । विभुर्व्यापकः परमेश्वरः । अतिशयेन विजयते. विजयतेतराम् । सर्वोत्कर्षेण वर्तत इति फलितोऽर्थः । 'विपराभ्यां जेः' इति तङ् । तदन्ताद् 'द्विवचनविभज्य -' इत्यादिना तरपि 'किमेत्तिङव्यय घादामु-' इत्याम् । नन्विह तरबू दुर्लभ एव, विजयत इत्यस्य प्रातिपदिकत्वादतिङन्तत्वाच्च । न च 'सह सुपा' इत्यत्र सहेति योगविभागात्तिङन्तेन विशब्दस्य समासे प्रातिपदिकत्वं 1

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 714