Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 13
________________ १०] सिद्धान्तकौमुदी। [ भ्वादि. स्तातांझथासाथांध्वमिड्वहिमहिङ्। ( ३-४-७८) एतेऽष्टादश लादेशाः स्थुः । २१५५ लः परस्मैपदम् । (१-४-६६) लादेशाः परस्मैपदसंज्ञाः स्युः। २१५६ तङानावात्मनेपदम् । (१-४-१००) तङ् प्रत्याहारःतादिनवकं शानच्कानचौ चैतत्संज्ञानि स्युः । पूर्वसंज्ञापवादः । २१५७ अनुदात्तङित आत्मनेपदम् । (१-३-१२) अनुदात्तेत उपदेशे यो ङित् वस् , मस, त, आताम् , झ, थास् , अाथाम् , ध्वम् , इट्, वहि, महिङ् । एषां समाहारद्वन्द्वात् प्रथमैकवचनम् । 'लस्य' इति स्थानषष्टयन्तमधिकृतम् । तेन आदेश इति लभ्यते। फलितमाह एत इति । तसादौ रुत्वाभाव आर्षः । तिबादौ पकारानुबन्धयोजनं तु द्वेष्टीत्यादौ सार्वधातुकमपिदिति छित्त्वनिवृत्त्यर्थम् । तदुदाहरणेषु स्पष्टीभविष्यति । लः पर । 'लः' इति स्थानषष्ठी । आदेश इत्यध्याहार्यम् । तदाह लादेशा इति । तङानौ। तङ् च आनश्चेति द्वन्द्वः। प्रत्याहार इति । त आतामिति तशब्दमारभ्य महिङिति ङकारेणेति शेषः, तदाह तादिनवकमिति । इह पूर्वसूत्राल्ल इत्यनुवर्तते। ततश्च प्रानग्रहणेन शानच्कानचावेव गृह्यते । न तु 'ताच्छील्यवयोवचनशक्तिषु चानश्' इति विहितश्चानशपि, तस्य लादेशत्वाभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्यति निम्नाना इत्यादौ । तदाह शानच्कानचौ चेति । एतत्संज्ञानीति । आत्मनेपदसंज्ञकानीत्यर्थः। पूर्वसंक्षेति । परस्मैपदसंज्ञापवाद इत्यर्थः । एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति । अथ कस्माद्धातोः परस्मैपदम् , कस्मादात्मनेपदमित्याकाङ्क्षायामाह अनुदात्तङितः । एधेमहीत्यत्रापि स्यात् , वर्णग्रहणे प्रत्ययग्रहणार्थवद्ग्रहणपरिभाषयोरप्रवृत्तेः । केचित्तु-'इटोऽत्' इत्यत्र लिङ इत्यनुवर्तनाल्लिकादेशस्येवर्णस्येति सामानाधिकरण्येन व्याख्याने एधेवहि एधेमहीत्यादावतिप्रसङ्गो नास्त्येव । न हि तत्र र कारमात्रमादेशो भवति । तेन 'इटोऽत्' इत्यत्र टकारः स्पष्टप्रतिपत्त्यर्थ एवेत्याहुः । तच्चिन्त्यम् , इकारस्य विशेषणत्वे विशेषणेन तदन्तग्रहणादिवर्णान्तस्य लिङोत्स्यादित्यर्थप्रसक्तया उक्तातिप्रसङ्गस्य तदवस्थत्वात् , वहिमहीत्य स्यापि स्थानिवत्त्वेन लिड़त्वात् । महिडो कारस्तङ् तिङिति प्रत्यहारार्थः । स च समुदायानुबन्धो न त्ववयवानुबन्धो व्याख्यानात् । तेनेषेः कर्मणि प्राशीलिङि एषिषीमहीत्यत्र गुणनिषेधो न, तथा च वृश्चतेः पृच्छतेश्च कर्मणि लिटि च ववश्चिमहे पच्छिमहे इत्यत्र 'अहिज्या-' इति संप्रसारणं न । तङानी । लस्येत्यस्यानुवृत्तेर्लादेश एवानो गृह्यते इत्याशयेनाह शानच्कानचौ चेति । तेन परस्मैपदिभ्योऽपि 'ताच्छील्यवयोवचन-' इति चानश् भवत्येव, कतीह निनानाः । अनुदात्तङितः । अनुदात्तश्च ङश्च अनुदात्तडौ, तौ

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 714