Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 17
________________ १४ ] सिद्धान्तकौमुदी। [ भ्वादि. वचनादिसंज्ञानि स्युः । २१६२ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः । (१-४-१०५) तिवाच्यकारकवाचिनि युष्मदि श्रप्रयुज्यमाने प्रयुज्यमानेऽपि मध्यमः स्यात् । २१६३ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवञ्च । (१-४-१०६) मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने । मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः वीप्सायाम्' इति शसिति भावः। युष्मदि । उपोच्चारितं पदमुपपदम् । युष्मदि समीपोचारिते सतीत्यर्थः । समानमेकमधिकरणं वाच्यं यस्येति विग्रहः । सामानाधिकरण्यं च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम् । 'लः परस्मैपदम्' इत्यतस्तदनुवृत्तः । तथा च फलितमाह तिवाच्यकारकवाचिनि युष्मदीति । स्थानं प्रसङ्गः अस्यास्तीति स्थानी, तस्मिन् प्रसक्ते सतीत्यर्थः । प्रतश्च तदर्थावगतौ सत्यां वक्त्रा अप्रयोग एव भवति । तथा च स्थानिनी त्यनेन उपपदभूते युष्मदि प्रयोगं विना स्वार्थ बोधयति सतीत्यर्थः पर्यवस्यति, तदा अप्रयुज्यमान इति । स्थानिनीत्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मध्यमः स्यात् । ततश्च राम पाहीत्यादौ अव्याप्तिः स्यात् । अपिना लब्धमाह प्रयुज्यमानेऽपीति । 'युष्मद्युपपदे स्थानिनि' इत्येवोक्तौ राम त्वं पाहीत्यादौ युष्म प्रयोगे मध्यमो न स्यात् । अतोऽपिग्रहणमिति भावः । अत्वं त्वं संपद्यत इत्यत्र तु न मध्यमपुरुषः, तत्र युष्मच्छब्दस्य गौणत्वात् । भवानागच्छतीत्यादौ भवच्छब्दयोगे तु न मध्यमपुरुषः, युष्मच्छब्दस्य संबोध्यैकविषयत्वात् , भवच्छब्दस्य तु स्वभावेन संबोध्यासंबोध्यसाधारणत्वादित्यलम् । प्रहासे च । वाक्यद्वयमिदं सूत्रम् । 'प्रहासे च मन्योपपदे' इति प्रथमं वाक्यम् । 'मध्यम' इत्यनुवर्तते । मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलाद् धाताविति विशेष्यं लभ्यते, तदाह मन्यधातुरित्यादिना । तस्मिन् प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थाने इत्यर्थः । मध्यमः स्यादिति । 'अस्मद्युपपदे-' इति शेषः । अस्मद्युत्तम इत्युत्तरसूत्रात्तदनुवृत्तेः। एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः । 'मन्यतेरुत्तम एक वच्च' इति द्वितीयं कत्वेन कैयटेन व्याख्यानाच्च स्वार्थिकस्यापि शसोऽवगम्यमानत्वात । ततश्चैकैकश इति प्राचोक्तमयुक्तमिति यदुक्तं तदेवायुक्तमित्याहुः । युष्मदि । समानाधिकरण इत्यस्य व्याख्यानं तिङ्वाच्यकारकवाचिनीति भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् स्थानिनीत्यस्य व्याख्यानमप्रयुज्यमान इति । समानाधिकरणे किम् , त्वां पश्यति, त्वया क्रियते, तुभ्यं ददाति । प्रहासे । मन्योपपद इति सप्तम्यन्तस्यानुगुणत्वेन व्याचष्टे तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थान

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 714