________________
१४ ] सिद्धान्तकौमुदी।
[ भ्वादि. वचनादिसंज्ञानि स्युः । २१६२ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः । (१-४-१०५) तिवाच्यकारकवाचिनि युष्मदि श्रप्रयुज्यमाने प्रयुज्यमानेऽपि मध्यमः स्यात् । २१६३ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवञ्च । (१-४-१०६) मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने । मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः वीप्सायाम्' इति शसिति भावः। युष्मदि । उपोच्चारितं पदमुपपदम् । युष्मदि समीपोचारिते सतीत्यर्थः । समानमेकमधिकरणं वाच्यं यस्येति विग्रहः । सामानाधिकरण्यं च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम् । 'लः परस्मैपदम्' इत्यतस्तदनुवृत्तः । तथा च फलितमाह तिवाच्यकारकवाचिनि युष्मदीति । स्थानं प्रसङ्गः अस्यास्तीति स्थानी, तस्मिन् प्रसक्ते सतीत्यर्थः । प्रतश्च तदर्थावगतौ सत्यां वक्त्रा अप्रयोग एव भवति । तथा च स्थानिनी त्यनेन उपपदभूते युष्मदि प्रयोगं विना स्वार्थ बोधयति सतीत्यर्थः पर्यवस्यति, तदा अप्रयुज्यमान इति । स्थानिनीत्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मध्यमः स्यात् । ततश्च राम पाहीत्यादौ अव्याप्तिः स्यात् । अपिना लब्धमाह प्रयुज्यमानेऽपीति । 'युष्मद्युपपदे स्थानिनि' इत्येवोक्तौ राम त्वं पाहीत्यादौ युष्म प्रयोगे मध्यमो न स्यात् । अतोऽपिग्रहणमिति भावः । अत्वं त्वं संपद्यत इत्यत्र तु न मध्यमपुरुषः, तत्र युष्मच्छब्दस्य गौणत्वात् । भवानागच्छतीत्यादौ भवच्छब्दयोगे तु न मध्यमपुरुषः, युष्मच्छब्दस्य संबोध्यैकविषयत्वात् , भवच्छब्दस्य तु स्वभावेन संबोध्यासंबोध्यसाधारणत्वादित्यलम् । प्रहासे च । वाक्यद्वयमिदं सूत्रम् । 'प्रहासे च मन्योपपदे' इति प्रथमं वाक्यम् । 'मध्यम' इत्यनुवर्तते । मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलाद् धाताविति विशेष्यं लभ्यते, तदाह मन्यधातुरित्यादिना । तस्मिन् प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थाने इत्यर्थः । मध्यमः स्यादिति । 'अस्मद्युपपदे-' इति शेषः । अस्मद्युत्तम इत्युत्तरसूत्रात्तदनुवृत्तेः। एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः । 'मन्यतेरुत्तम एक वच्च' इति द्वितीयं कत्वेन कैयटेन व्याख्यानाच्च स्वार्थिकस्यापि शसोऽवगम्यमानत्वात । ततश्चैकैकश इति प्राचोक्तमयुक्तमिति यदुक्तं तदेवायुक्तमित्याहुः । युष्मदि । समानाधिकरण इत्यस्य व्याख्यानं तिङ्वाच्यकारकवाचिनीति भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् स्थानिनीत्यस्य व्याख्यानमप्रयुज्यमान इति । समानाधिकरणे किम् , त्वां पश्यति, त्वया क्रियते, तुभ्यं ददाति । प्रहासे । मन्योपपद इति सप्तम्यन्तस्यानुगुणत्वेन व्याचष्टे तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थान