________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५ स्यात् । २१६४ अस्मद्युत्तमः । (१-४-१०७) तथाभूतेऽस्मद्युत्तमः स्यात् । २१६५ शेषे प्रथमः । (१-४-१०८) मध्यमोत्तमयोरविषये प्रथमः स्यात् । भू१ सत्तायाम् । कर्तृविवक्षायां भू ति इति स्थिते । २१६६ तिशित्सार्वधातुकम् । (३-४-११३ ) तिङः शितश्च धात्वधिकारोक्का एतत्संज्ञाः स्युः। २१६७ कर्तरि शप् । (३-१-६८) कथै सार्वधातुके परे धातोः शप वाक्यम् तद्याचष्टे मन्यतेस्तूत्तम, स्यादिति । 'यष्मद्युपपदे' इति शेषः, पूर्वसूत्रात्तदनुवृत्तेः । स चेति । स मन्यतेरुत्तमपुरुषो द्वित्वबहुत्वयोरपि एकवचनं लभते इत्यर्थः । मध्यमोत्तमयोर्व्यत्यासार्थमिदम् । एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति । अस्मद्युत्तमः। तथाभूत इति । तिङ्वाच्यकारकवाचिनि प्रयुज्यमाने अप्रयुज्यमाने चेत्यर्थः । शेषे । उक्तान्मध्यमोत्तमविषयादन्यः शेषः, तदाह मध्यमोत्तमयोरविषय इति । त्वम् अहं च पचाव इत्यत्र तु परत्वादुत्तमपुरुष एव । न तु मध्यमः । देवदत्तस्त्वं च पचथ इत्यत्रापि न प्रथमपुरुषः । युष्मदस्सत्त्वेन शेषत्वाभावादित्यलम् । भू सत्तायामिति । वर्तत इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्र भू इत्येव गणे पाठः। अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः, न किया, तथापि अात्मधारणं सत्तेत्युच्यते । स्वरूपेणावस्थानमिति यावत् । कर्तविवक्षायामिति । वर्तमानसत्तावृत्तभूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याभावात् प्रथमपुरुषत्रिके तत्रापि कर्तुरेकत्वविवक्षायां तिपि सति, भू ति इति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः । तत्र सार्वधातुककार्य वक्ष्यन् सार्वधातुकसंज्ञामाह तिशित् । 'धातोः' इत्यधिकृतम् , तदाह धात्वधिकारोक्ता इति । तेन हरीनित्यत्र शसः सार्वधातुकत्वं न । अन्यथा 'तिशित्सार्वधातुकम्' इति शसः सार्वधातुकत्वात् सार्वधातुकमपिदिति कित्त्वे 'डिति' इति गुणः स्यात् । कर्तरि शप् । 'सार्वधातुके यक्' इत्यस्मात् सार्वधातुक इत्यनुवर्तते । 'धातोरेकाचो हलादेः-' इत्यस्माद्धातोरिति । तदाह कर्बर्थ इत्यादिना । तिङि परे धातोविहिताना प्रत्ययानां शबादीनां विकरणसंज्ञा प्राचीइत्यर्थः । तथाभूत इति । तिब्वाच्यकारकवाचिनि प्रयुज्यमानेऽप्रयुज्यमाने चेत्यर्थः। तिशित् । धात्वधिकारोक्ता इति किम् , हरीन् । शसः 'सार्वधातुकमपित्' इति डित्त्वे 'घेडिति' इति गुणः स्यात् , लिहः श्रिय इत्यादिशसन्तेषु 'सार्वधातुके यक्' इति यक् च स्यात् । केचितु वारिणीत्यत्र नुमि कृतेऽपि लघूपधगुणः स्यादित्याहुः । तक, विन्तीति निषेधात् , इगन्तत्यप्रयुक्तस्य नुमो गुणप्रयोजकत्वे सन्निपातपरिभाषाविरोधाच्च । कर्तरि शप् । 'सार्वधातुके यक्' इत्यतः सार्वधातुक इत्यनुवर्तते, 'धातो.