________________
१६ ]
सिद्धान्तकौमुदी |
[ भ्वादि
स्यात् । पावित । २१६८ सार्वधातुकार्धधातुकयोः । ( ७-३-८४) अनयोः परयोरिगन्तस्याङ्गस्य गुणः स्यात् । श्रवादेशः । भवति । भवतः । २१६६ झोऽन्तः । ( ७ - १ - ३ ) प्रत्ययावयवस्य कस्यान्तादेशः स्यात् । 'श्रतो नाचार्यसिद्धा । शपाविताविति । शकारपकारौ 'लशक्वतद्धिते' इति 'हलन्त्यम्' इति चेत्संज्ञकावित्यर्थः । ततश्च शपि शकारपकारयोः लोपे प्रकार मात्रं शिष्यत इत्यर्थः । भूति इति स्थिते सार्वधातुकार्ध | 'इको गुणवृद्धी' इति परिभाषया 'इक’ इत्युपस्थितेन ‘अङ्गस्य’ इत्यधिकृतं विशेष्यते । तदन्तविधिः । 'मिं इर्गुणः' इत्यस्माद् 'गुण' इत्यनुवर्तते, तदाह अनयोरित्यादिना । तथा च ऊकारस्य गुण ओकारः । अवादेश इति । ओकारस्येति शेषः । तथा च परिनिष्ठितं रूमाह भवतीति । भवत इति । कर्तृद्वित्वविवक्षायां भूधातोर्लटः तसादेशे शपि गुणे श्रवादेशे सकारस्य रुत्वविसर्गाविति भावः । कर्तृबहुत्वविवक्षायां भूधातोर्लटो के इत्यादेशे शपि गुणे श्रवादेशे च कृते झोऽन्तः । कः अन्त इति च्छेदः । मइति षष्ठ्यन्तम् । श्वादेशे तकाराद् अकार उच्चारणार्थः । ' श्रायनेयी -' इति सूत्रात् त्वयग्रहणमनुवर्तते, न त्वादिग्रहणमपि, स्वरितत्वात् । अनुवृत्तं च प्रत्ययग्रहणमव विषष्टयन्तमाश्रीयते, तदाह प्रत्ययावयवस्येति । झस्य | ककारस्येत्यर्थः । ग्रन्त देशः स्यादिति । रेकाच:-' इति सूत्राद्धातोरिति च तदाह कर्त्रर्थ इत्यादि । भोऽन्तः । तकारदकार उच्चारणार्थः । ‘आयनेयीनी -' इति सूत्रात्प्रत्यग्रहणमनुवर्तते न त्वादिग्रहणम्, एकदेशे स्वरितत्वप्रतिज्ञानात् । तस्याप्यनुवृत्तौ तु शयान्ते इति न सिध्येत् । शीङो 'लेटोsडाटा' इत्यन्तरङ्गत्वादन्तादेशात्प्रागादि कृते स्यादित्वाभावात्, तदेतदाह प्रत्ययावयवस्येति । प्राचा तु प्रत्ययादेर्भास्येत्युक्तं तदनेन प्रत्युक्तम् । इह मनोरमायामादिग्रहणं निवृत्तमित्युक्तम्, तदापाततः, अन्यत्राप्रवृत्तस्यादिग्रहणस्य नित्तत्वयोगात्, निवृत्त मित्यस्याननुवृत्तमित्यर्थ इति वा कथंचिद्वयाख्येयम् । यत्तु प्रत्ययादे रिति ग्रन्थसमर्थनाय व्याचक्षते - आडागमे कृते तत्सहितोऽपि प्रत्ययोsस्तु नाम, न तु तत्सहित एव प्रत्यय इति नियमोऽस्तीति । तन्न, श्रवयवविनिर्मुक्तस्यावयवित्वायोगात् । अन्यथा भूयास्तामित्यादौ तामादीनामिडागमापत्तेः । ननु श्रङ्गात्परस्य प्रत्यस्येटो यासुजन्तं तु नाङ्गामिति चेत् । न, आगमविनिर्मुक्तस्यापि प्रत्ययत्वमिति वदतां मते भवामि भविष्यामीत्यादौ विकरणान्तस्येव तदादिग्रहणबलेन यासुङन्तस्यापङ्गताया दुर्वारत्वात् । किं च लविषीयेत्यत्र विशेषविहितत्वात्सीयुटि कृते लिङः स्थाने इट् तस्यागमेनादित्वविघातात्प्रत्ययाद्युदात्तत्वं न प्राप्नोतीत्याशङ्कय प्रत्ययस्वरे कर्तव्ये श्रागमा श्रविद्यमानवदित्यतिदेशः 'आद्युदातश्च' इति सूत्रे भाष्यादौ स्वीकृतः । न चैत केवलस्यापि प्रत्ययत्वे