________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७ गुणे' (सू १६१)। भवन्ति । भवसि भवथः भवथ । २१७० अतो दी? यमि । (७-३-१०१) अदन्तस्याङ्गस्य दीर्घः स्याद्यनादौ सार्वधातुके परे । भवामि भवावः भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । अन्त् इत्ययमादेशः स्यादित्यर्थः । 'प्रत्ययावयवस्य' इति किम् ? उज्झिता । अत्र धात्ववयवस्य भकारस्य न भवति । प्रादिग्रहणानुवृत्तौ तु शयान्तै इति न सिध्यति । अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटि कृते झकारस्य प्रत्ययादित्वाभावाद् इति भाष्ये स्पष्टम् । एवं च भव झि इत्यत्र झकारस्य अन्त् इत्यादेशे, भव अन्ति इति स्थिते, 'अतो गुणे' इति द्वयोरकारयोः सवर्णदीर्घापवादे पररूपे कृते, भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाकारोच्चारणं तु लुम्विकरणे द्विषन्तीत्यादौ प्रकारश्रवणार्थम् । भवसीति । मध्यमपुरुषैकवचने सिपि शपि गुणे अवादेशे रूपम् । भवथ इति । मध्यमपुरुषद्विवचने थसि शपि गुणे अवादेशे रुत्वविसर्गयोश्च रूपम् । 'न विभक्ती तुस्माः' इति सस्य नेत्त्वम् । भक्थेति । मध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेश रूपम् । उत्तमपुरुषेकवचनेऽपि शपि गुणे अवादेशे भव मि इति स्थिते अतो दी? यत्रि । 'अङ्गस्य' इत्यधिकृतम् अता विशेष्यते । तदन्तविधिः । 'तुरुरतुशम्यम-' इत्यतः सार्वधातुके इत्यनुवृत्तं यत्रा विशेष्यते । तदादिविधिः। तदाह अदन्तस्येत्यादिना । भवामीति । न च भूधातोर्विहितलादेशं प्रति युज्यते, न च तन्मते आगमसहितस्यापि प्रत्ययत्वादिकारस्याप्युदात्तः स्यात् , तद्वारणाय प्रत्ययखरे कर्तव्य इत्यादिग्रन्थः स्वीकर्तव्य एवेति नास्त्येवाकर ग्रन्थविरोध इति वाच्यम् , 'भागमा अनुदात्ताः' इति विशेषवचनेनागमस्याप्यनुदात्तत्वे कृते प्रायुदात्तत्वस्य तत्राप्रवृत्तेरिति दिक् । झस्येति । झकारादकार उच्चारणार्थः । अतो गुण इति । 'अतो दी| यत्रि' इति तु न प्रवर्तते, स्थान्यलादेशविधौ स्थानिवत्त्वनिषेधादिति भावः । अतो दी? । 'तुरुस्तुशम्यमः-' इति सूत्रात्सार्वधातुक इत्यनुवर्तते सार्वधातुके किम् , केशवः, अङ्गना। अत आत् इति वक्तव्ये दीर्घग्रहणं दीर्घ एव यथा स्थादित्येवमर्थम् । अन्यथाऽपाक्षीरोदनं देवदत्त, ननु पचामि भोरित्यत्रानन्यस्यापि प्रश्नाख्यानयोरिति प्लुतः स्यात् । केचित्तु-श्रत आदिति सुवचम् , तपरकरणसामर्थ्याद् विकारनिवृत्तिर्भवेदिति प्लुतस्यापि प्रसङ्गात् , उदात्तस्थाने उदात्त श्राकारः, अनुदात्तस्थानेऽनुदात्त श्राकार इत्यादि तु 'स्थानेऽन्तरतभः' इत्यनेनैव सिद्धम् । अतएव 'वृषाकप्यग्नि--' इति सूत्रे वृषाकपिशब्दो मध्योदात्त एक एवोदात्तत्वं प्रयोजयति, अग्न्यादिषु तु 'स्थानेऽन्तरतमः' इत्येव सिद्धमिति मनोरमादावुक्तम् । ततश्च प्रयोजनाभावात्तपरकरणमनणि विध्यर्थमिति नाशङ्कनीयमेव । यदि तु 'हल्याम्भ्यः-' इत्यत्र श्रा