________________
१८] सिद्धान्तकौमुदी।
[ भ्वादियुवां भवथः। यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्य श्रोदनं भोच्यस इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये श्रोदनं भोयेथे भोयध्व इत्यादि । भोये, भोक्ष्यावहे, भोयामहे । मन्यसे, मन्येथे, मन्यध्वे इत्यादिरर्थः । 'युष्मद्युपपदे-' (सू २१६२) इत्याद्यनुवर्तते । तेनेह न - एतु भवान्मन्यते श्रोदनं भोक्ष्य इति भुक्तः सोऽतिथिभिः । 'प्रहासे' किम्यथार्थकथने मा भूत् । एहि मन्यसे श्रोदनं भोक्ष्य इति भुक्तः सोऽतिथिभिः । २१७१ परोक्षे लिट् । (३-२-११५) भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् भूधातुरेवाङ्गम् , न तु भवेति विकरणान्तमिति वाच्यम् , 'यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्' इत्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् । भवावः भवाम इति । लस्य वसि मसि च शपि गुणे अवादेशे अतो दीर्घ रुत्व विसर्गे च रूपे । न विभक्ताविति सस्य नेत्त्वम् । अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह स भवतीत्यादि । अथ 'प्रहासे च-' इति सूत्रस्योदाहरति एहीति । सर्वेषु भुक्तवत्सु भोक्ततुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम् । भो जामातः, एहि आगच्छ, ओदनं भोदये इति त्वं मन्येस, नैतद्युक्तमित्यर्थः । कुत इत्यत आह भुक्तः सो. ऽतिथिभिरिति । स ओदनः अतिथिभिर्भक्षित इत्यर्थः । अत्र भुजेरुत्तमपुरुषे प्राप्ते मध्यमः पुरुषः । मन्यतेस्तु मध्यमपुरुषे प्राप्त उत्तमः पुरुषः । एतं एत वेति । है जामातरौ आगच्छतम् अोदनं भोक्ष्यावह इति मन्येथे इति, भो जामातरः प्रोदनं भोल्यामह इति मन्यध्वे इति चार्थः । अत्रोभयत्रापि भुजेस्त्तमे प्राप्ते मध्यमः। मन्यतेस्तु मध्यमे प्राप्ते उत्तमः । द्वित्वबहुत्वयोरेकवचनं च । इत्यादीति । एहि एतं एत वा मन्ये जलं पास्यसि पास्यथः पास्यथ इत्यादिसंग्रहः । मन्ये इत्युत्तमपुरुषैकवचनान्तं व्याचष्टे मन्यस इत्यादिना । अनुवर्तत इति । 'प्रहासे च' इति सूत्र इति शेषः । एतु भवानिति । युष्मद्भवतोः पर्यायत्वाभावस्यानुपदमेवोक्तत्वादिति भावः । इति लट् प्रक्रिया । परोक्ष लिट् । 'अनद्यतने लङ्' इत्यस्मादनद्यतन इत्यनुवर्तते । 'भूते' इत्यधिकृतम् । परोक्षत्वं धात्वर्थविशेषणम् । तदाह भूतान
आबिति वदत आ इत्यत्रा आश्रा इति प्रश्लेषः क्रियते तदा तपरकरणं विनापीष्टसिद्धिरित्याहुः । 'प्रहासे च-' इति सूत्रस्योदाहरणमाह एहि मन्य इति । ओदनं भोक्ष्य इति त्वं मन्यस इत्यर्थः । एतं एत वेति । एतं मन्ये ओदनं भोक्ष्येथे, एत मन्ये ओदनं भोक्ष्यध्वे इत्यन्वयः । भोक्ष्यावहे इति युवां मन्येथे, भोक्ष्यामह इति यूयं मन्यध्वे इति क्रमेणार्थः । परोक्ष लिद । यद्यप्यधिश्रयणादिव्यापाररूपा क्रिया सर्वा परोक्षैव । उक्तं हि भाष्ये 'क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न