________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६ स्यात् । लस्य तिबादयः । २१७२ लिट् च । (३-४-११५) लिडादेशखिङार्धधातुकसंज्ञ एव स्थान तु सार्वधातुकसंज्ञः । तेन शबादयो न । २१७३ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः । (३-४-८२) लिटस्तिबादीनां नवानां णलादयो नव स्युः । भू अ इति स्थिते । २१७४ भुवो वुग्लुङ्द्यतनेत्यादिना । अतीतरानेरन्त्ययामेन आगामिरात्रेराद्ययामेन सहितो दिवसः अद्यतन इति लुसूत्रभाष्ये कैयटे स्थितम् । परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके । वर्षसहस्रवृत्तत्वमित्यपरे । द्यवृत्तत्वं व्यहवृत्तत्वं चेत्यन्ये । कुड्यकटाद्यन्तरितत्वमितीतरे। एते पक्षा भाष्ये स्थिताः । तत्र प्रयोक्तुरिन्द्रियागोचरत्वं परोक्षत्वभित्येव सर्वसम्मतमित्यलम् । लस्य तिबादय इति । तिबादिनवकमित्यर्थः । लिट् च । लिडिति लुप्तस्थानषष्टयन्तम् । 'तिङ्शित्सार्वधातुकम्' इत्यस्मात् तिङित्यनुवर्तते । 'आर्धधातुकं शेषः' इत्यस्मादार्धधातुकमिति। तदाह लिडादेशस्तिङिति । एकसंज्ञाधिकारबहि. भूतत्वात् सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह आर्धधातुकसंश एवेति । 'लङश्शाकटायनस्यैव' इति सूत्रादेवकारानुवृत्तेरिति भावः । तेनेति । सार्वधातु. कत्वाभावेन तन्निमित्ताः शप्श्यन्नादयो न भवन्तीत्यर्थः । परस्मैपदानाम् । 'लिटस्तझयोः-' इत्यस्माद् लिट इत्यनुवृत्तिमभिप्रेत्याह लिटस्तिबादीनामिति । शक्या पिण्डीभूता निदर्शयितुमिति, तथापि तदनुकूलशक्तिमतां व्यापाराविष्टानां साधनानां पारोक्ष्यमिह विवक्षितम् , तेन क्रियानाविष्टसाधनमात्रप्रत्यक्षेऽपि लिड् भवत्येव, अयं पपाच त्वं पेचिथ । ननु क्रियाशब्दवाच्यधिश्रयणाधःश्रयणादिव्यापाराणां युगपत्प्रत्यक्षाविषयत्वेऽपि क्रमशः प्रत्यक्षविषयत्वमस्ति, यत्र तु क्रमशोऽपि प्रत्यक्षविषयत्वं नास्ति तत्र हि पारोक्ष्यं क्रियायाः। ततश्च लिडुत्तमपुरुषो दुर्लभ इति चेत् । अत्राहु:-खव्यापारस्यापि वर्तमानतादशायां व्यासङ्गादिना खयमप्रतिसंधाने ततः कार्येणानुमितौ भवत्येव-'बहु जगद पुरस्तात्तस्य मत्ता किलाहम्' इतिवदिति । लिद् च । आर्धधातुकसंज्ञ एवेति । 'लङः शाकटायनस्य-' इति सूत्रादेवकारोऽनुवर्तत इति भावः । परस्मैपदानाम् । अत्र थशब्दस्याकारो विधीयमानोऽन्तस्य प्राप्नोति । न चाकारस्याकारविधौ निरर्थकत्वमिति वाच्यम् , यथासंख्यसंपादनेन कृतार्थत्वात् । अत्राहुः-धातोरित्यधिकाराद् 'श्रादेः परस्य' इति व्यञ्जनमात्रस्य कृते, द्वयोः 'अतो गुणे' इति पररूपम् । यद्वा द्वयोरकारयोः पररूपेण सूत्रे निर्देशस्तथा चानेकालत्वात्सर्वादेशे सिद्धभिष्टमिति । ननु सुबन्तानामेव द्वन्द्वस्तत्र त्वकारद्वयकल्पनायो सवर्णदीर्घ एव स्यादिति चेत् । मैवम् , अादेशानां स्थान्यर्थेनैवार्थवत्त्वात् थशब्दस्य विधीयमानमकारद्वयं प्रत्येकमर्थवन्न भवतीति समुदितस्य प्रातिपदि