________________
२० ] सिद्धान्तकौमुदी।
[ भ्वादि. लिटोः । (६-४-८८) भुवो वुगागमः स्यात् लुलिटोरचि । नित्यत्वाद् णलादय इति । णल् , अतुस् , उस् , थल , अथुस् , अ, गाल , व, म, इत्येते नव यथासंख्यं स्युरित्यर्थः । तत्र तिपो णल सर्वादेशः । न च राकारलकारयोः 'चुटू' इति 'हलन्त्यम्' इति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वमिति वाच्यम् , सर्वा. देशत्वात्प्राग् णलः प्रत्ययत्वाभावेन 'चुटू' इत्यस्याप्रवृत्तेः। रित्त्वं तु जुहावेत्यादौ वृद्धयर्थम् । लित्त्वं तु लित्स्वरार्थम् । ननु मध्यमपुरुषबहुवचनथस्य विधीयमानः अकारः 'अलोऽन्त्यस्य' इत्यन्त्यस्य स्यात् । अकारस्य अकार विधिस्तु यथासंख्यापादनार्थ इति चेत्, सत्यम् । द्वयोरकारयोः पररूपेण अ इति सूत्रे निर्देशादनेकाल्त्वात् सर्वादेशत्वमिति भाष्ये स्पष्टम् । न च अतुसादीनामादेशत्वात् पूर्व विभक्तित्वाभावेन 'न विभक्तौ-' इति निषेधाभावात् सकारस्येत्त्वं दुर्वारमिति वाच्यम् , सकारादुपरि सकारान्तरस्य संयोगान्तलोपेन लुप्ततया श्रूयमाणसकारस्योपदेशेऽ त्यत्वाभावादित्यलम् । भुवो वुक् । अचीति । 'अचि श्नुधातु-' इत्यतस्तदनुवृत्तेरिति भावः । 'अचि' इति किम् ? अभूत् । ननु णलि परत्वाद् बुकं बाधित्वा 'अचो नि ।' इति वृद्धिः स्यात् । बभूविथेत्यत्र तु 'सार्वधातुकार्धधातुकयोः' इति गुणः स्यादित्यत आह नित्यत्वादिति । कृतयोरपि गुणवृद्धयोरेकदेशविकृतन्यायाद् वुक् प्रवर्तते । अकृतरोरपि प्रवर्तते । ततश्व कत्वे न 'अतो गुणे' इति पररूपस्यैव प्रवृत्तेः । भुवो वुक् । 'प्रचि अधातु-' इति सूत्रादचीत्यनुवर्तते तदाह लुइलिटोरचीति । अचीति किम् ,अभूत् , अभूः इत्यत्र बुकि सति 'लोपो व्योः' इति लोपं बाधित्वा परत्वाद्धल्यादिलोप: स्यात् । ननु हल्ङ्यादिलोपादन्तरङ्गत्वाद् 'लोपो व्योः' इति लोप एव भविष्यति । तथा व मव्यतेर्यङ्लुगन्ताल्लङि तिपसिपोः अमामत् अमाम इत्यत्र व्योपि एव माधवादिभिः स्वीकृतः । एवं चाग्रहणम् 'ऊदुपधाया-' इत्युत्तरार्थमनुवत्मानमिहाप्युपरञ्जकतया वृत्तिकारादिभिर्योजितम् , न त्वावश्यकतयेत्येव निष्कर्ष उचित इति चेत् । अत्राहुः-- 'भुवो वुक्-' इत्यस्याङ्गत्वाद्वपक्षत्वेन हल्ङयादिलोपस्येव वुकोऽपि बहिरङ्गतया असिद्धत्वे सति वलिलोपस्य प्राप्तेरेवाभावादग्रहणमिहार्थमपीत्या युक्तमिति । अयं च शङ्काग्रन्थः समाधानप्रन्थश्च मनोरमायां स्थितः । अत्र नव्या:-मव्यतेलुगन्त एव नास्ति, अमामदित्यादि रूपं तु दुरादपास्तमेव, यकारतकारान्तानामूठभाविनां यङ्लुग् नास्तीति 'छः शूड्-' इति सूत्रे भाष्ये ध्वनितम् , केयटेन स्पष्टीकृतम् । इदं च वोरिति यत्रोत् तद्विषयकं 'ज्वरत्वर-' इत्यूठभाविनोः त्रिविमव्योस्तु यलुगस्त्येवेति न्याय्यं माधवादिसंमतं च । 'मव्य बन्धने' अयं यान्त ऊभावीति मूले वक्ष्यमाणस्वात् । तथा च तद्ग्रन्थेन सहानत्यमनोरमाग्रन्थो विरुध्यत इत्याहुः । यदि