________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्वबोधिनीसहिता ।
[ २१
,
बुग्गुणवृद्धी बाधते । २१७५ एकाचो द्वे प्रथमस्य । ( ६-१-१ ) २१७६ जादेर्द्वितीयस्य । ( ६- १-२ ) इत्यधिकृत्य । २१७७ लिटि धातोरनभ्यासस्य । ( ६-१-८ ) लिटि परेऽनभ्यासधास्ववयवस्यैकाचः प्रथमस्य द्वे स्तः, श्रदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् श्र इति स्थिते । २१७८ 'कृताकृतप्रसङ्गी यो विधिः स नित्यः' इति न्यायेन वुक् नित्यः सन् गुणवृद्धी बाधते इत्यर्थः । बुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः । भूव् इति स्थिते । एकाचः । श्रजादेः । इत्यधिकृत्येति । षष्टाध्यायारम्भे द्वे इमे सूत्रे । ते च न विधायके, अतिप्रसङ्गात् । किन्तु 'यङ ः सम्प्रसारणम्' इत्यतः प्राग् अनुवर्तेते एवेति भावः । लिटि धातोः । 'एकाचो द्वे प्रथमस्य' इत्यधिकृतम् । धातोरित्यवयवषष्ठी । तदाह धात्ववयवस्यति । एकाच इति प्रथमस्येति च धात्ववयवस्य विशेषणम् । एकः यच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः । तथा च लिटि परे अभ्यासभिन्नस्यैकाच्कस्य प्रथमस्य धात्ववयवस्य द्वे उच्चारणे स्त इत्यर्थः । एकाच इत्यत्र कर्मचारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् । 'अजादेर्द्वितीयस्य' इत्यप्यधिकृतम्। तत्राच्चासावादिश्च अजादिः, तस्मादिति कर्मधारयात् पञ्चमी, तदाह श्रादिभृतादचः परस्य तु द्वितीयस्येति । एकाच इति शेषः । अजादिधात्ववयवस्य एकाचश्चेद् द्वित्वम् तर्हि द्वितीयस्यैवैकाचो द्वित्वम् नतु प्रथमस्येति यावत् । अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याहृत्यैकाचः प्रथमस्येति कृद्योगलक्षण षष्ठीं चाश्रित्य द्विः प्रयोग एवात्र विधीयते । न स्थानषष्टीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् । 'प्रदेशप्रत्यययोः' इति सूत्रभाष्येऽपि द्विः प्रयोगपक्ष एवोक्तः । तदिह विस्तरभयान्न लिखितम् । पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं च व्यपदेशिवत्त्वेन बोध्यम् । अजादेरिति बहुव्रीह्याश्रयणे तु, इन्द्रमात्मन इच्छति इन्द्रीयति इन्द्रीयितुमिच्छति इन्दिद्रीयिषतीत्यादौ 'नन्द्राः संयोगादयः' इति दकारस्य द्वित्वनिषेधश्च स्यात्, तत्राजादेरित्यनुवृत्तेः । 'धातोः' इति किम् ? तदभावे हि लिटि परे यः प्रथम एकाच् तस्य द्वे इत्यर्थः स्यात् । एवं सति पपाचेत्यादावेव स्यात् । न तु जजागारेत्यादाविति भाष्ये स्पष्टम् । न च पपाचेत्यादौ 'लिटि धातो:-' इति द्वित्वे कृते लक्ष्ये लक्षणस्यति न्यायेन पुनर्द्वित्वस्याप्रसक्लेरनभ्यासग्रहणं व्यर्थमिति वाच्यम्,
"
,
तु मवतेर्यङ्लुगन्तादिति मनोरमायां पठेयेत तदा तत्र पूर्वापर ग्रन्थविरोधो नास्तीति दिक् । श्रजादेरिति । यदि बहुव्रीहेः षष्ठी तदा इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्री - यितुमिच्छति इन्दिद्रीयिषति इत्यत्र दकारस्य 'नन्द्रा :-' इति द्वित्वनिषेधः स्यात्, किंतु अच्चासावादिश्चाजादिस्तस्मादिति कर्मधारयादेषा पश्चमी, तदाह आदि भूतादचः