SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २२ ] सिद्धान्तकौमुदी। [भ्वादिपूर्वोऽभ्यासः । (६-१-४) अब ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् । २१७६ हलादिः शेषः । (७-४-६० ) अभ्यासस्यादिहल शीष्यतेऽन्ये हलो लुप्यन्ते । इति वलोपः । २१८० ह्रस्वः । (७-४-५६) अभ्यासस्याचो यङन्तात् 'सन्यङोः' इति यनिमित्तकद्वित्वविशिष्टात् सनि सन्निमित्तकद्वित्वनिवृत्तये सन्नन्तात् 'सन्योः ' इति कृतद्वित्वारिणचि लुङि चङि कृते 'चङि' इति द्वित्वनिवृत्तये चानभ्यासग्रहण स्यावश्यकत्वात् । भाष्ये तु 'कृष्णो नोनाव वृषभो यदीदम्' इत्यादौ नुधातोर्यङन्तात् 'सन्यङोः' इति कृतद्वित्वाद् नोनूय इत्यस्माद् लिटि 'कास्प्रत्ययादाममन्त्रे लिटि' इति मन्त्रपर्युदासादामभावे 'यस्य हलः' इति यकार लोपे अतो लोपे तिपो णलि वृद्धावावादेशे नोनावेत्यत्र 'लिटि धातो:-' इति द्वित्वनिवृत्तये अनभ्यासग्रहणमित्युक्त्वा 'अनभ्यासग्रहणमनर्थकं छन्दसि वा वचनात्' इत्युक्तम् । यङन्तात् सनि सन्नन्तारिणचि चङि च प्रयोगो लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम्। प्रकृते च भूव् अ इत्यत्र चत्वार एकाचः। तत्र भू इति प्रथमः, ऊव् इति द्वितीयः, ऊ इति व्यपदेशिवद्भावेन तृतीय एकाच , भूव् इति समुदायस्तु चतुर्थः। तत्र समु. दाय द्विरुच्यमाने सर्व अवयवा द्विरुच्यन्त इति भूव् इति समुदायस्यैव द्विवेचनमिति भाष्ये स्पष्टम् । तदाह भूव भूव अ इति स्थित इति । अत्र भूव इत्यस्य एकाचो धात्ववयवत्वं प्रथमत्वं च व्यपदेशिवत्त्वाद्वोध्यम् । पूर्वः । अत्रेति । 'एकाचो द्वे प्रथमस्य' इति षाष्टद्वित्वप्रकरण इत्यर्थः । तेन 'सर्वस्य द्वे' इत्यादिविहितस्य द्वित्वस्य न संग्रहः । कस्य पूर्व इत्याकाङ्क्षायां द्वे इत्यनुवृत्तं षष्ठया विपरिणतं संबध्यते, तदाह ये द्वे विहिते तयोरिति । हलादिः शेषः । 'अत्र लोपोऽभ्यासस्य' इत्यस्माद. भ्यासस्येत्यनुवर्तते । शिष्यत इति शेषः, कर्मणि घञ् । शिषधातुरितरनिवृत्तिपूर्वकावस्थितो, तदाह अभ्यासस्येत्यादिना । इति वलोप इति । भूव भूव इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः । भू भूव् अ इति स्थिते इस्वः । 'अत्र लोपोऽभ्यासस्य' इत्यतः अभ्यासस्येत्यनुवर्तते । ह्रस्वश्रवणाद् 'अचश्च' इति परिभाषया अच परस्य त्विति । भूवभूव इति । यद्यप्यत्र धात्ववयवत्वं प्राथम्यं च न संगच्छते, तथापि व्यपदेशिवद्भावेन तद्बोध्यम् । नन्विह चत्वार एकाचस्तत्रावयवात्रयः, तत्र भू ऊ ऊंव् इति भूविति समुदायश्चतुर्थः, तथा चानियमेन यस्य कस्यचिद् द्वित्वं स्यात् । मैवम् , समुदायस्यैकाच एव द्विर्वचनस्य न्याय्यत्वात्तस्मिन्हि द्विरुच्यमाने अवयवा अपि द्विरुच्यन्त एव, वृक्षचलनेन सर्वावयवचलनवत् । अत्रेति । एकाचो द्वे इति प्रकरणे । हलादिः। अभ्यासस्येति जातिपरो निर्देशस्तेन अाटतुः आटुरित्यादौ तकारादिनिवृत्तिः सिध्यति, कचिदभ्यासे आदेईलः सत्त्वमाश्रित्य सर्वत्रानादोप
SR No.006150
Book TitleLaghu Siddhant Kaumudi Part 03
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages714
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy