________________
प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२३ हस्वः स्यात् । २१८१ भवतेरः । (७-४-७३) भवतेरभ्यासोकारस्य श्रः इत्युपस्थितम् , तदाह अभ्यासस्याच इति । भुभूव् अ इति स्थितम् । यद्यपि 'भवतेरः' इति वक्ष्यमाणाकारविधिनैव सिद्धमिदम् , तथापि लुलावत्याद्यर्थमावश्यकमिदम् अत्रैव न्याय्यत्वादुपन्यस्तम् । भवतेरः । 'भवतेः' 'अः' इति छेदः । भवतेरिति श्तिपा निर्देशः। भूधातोरित्यर्थः । 'इकश्तिपौ धातुनिर्देशे' इत्युक्तेः । 'अत्र लोपोऽभ्यासस्य' इत्यस्मादभ्यासस्येनुवर्तते। 'व्यथो लिटि' इत्यस्माद् लिटीति । भू. विधानात् । भवतेरः । 'अत्र लोपोऽभ्यासस्य' इति सूत्रादभ्यासपदमनुवर्तते । अत्र प्राचोक्तम्-भवतेरिति कर्तृनिर्देशाद् भावकर्मणो त्वमिति, व्याख्यातं च तत्पौत्रेण कर्ययोः श्तिप्शपोनिर्देशांदित्यर्थ इति । तन्न, धातुनिर्देशमात्रे श्तिपो विधानात् , प्रपश्च विकरणत्वेनानर्थकत्वात् कथके परे विहितस्यापि तस्य श्तिपः शित्त्वसामर्थ्या. देवह प्रवृत्तेः, अन्यथा त्वदुक्तरीत्या 'उपसर्गात्सुनोतिसुवति-' इत्यादीनामपि भावकर्मणोरप्रवृत्तौ सर्वोपप्लव एव स्यात् , अपसिद्धान्तश्चायमिति स्पष्टमेवाकरदृशाम् । प्रयुञ्जते च कर्मण्यप्यकारं कवयः 'तस्यातपत्रं बिभरांबभूवे' 'विभावरीभिर्बिभरांबभूविरे' इत्यादि । एतच प्रक्रियाप्रसादग्रन्थदूषणं मनोरमायां स्थितम् । अत्र नव्याः-श्तिपः शित्त्वसामर्थ्यावेदेह शपः प्रवृत्तिरिति यदुक्तं तन्न । पिबतिः ग्लायतिरित्यादौ पिबाद्या. देशप्रवृत्त्या आत्त्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात् । एवं च 'उपसर्गात्सुनोति. सुवति-' 'भवतेरः' 'ध्यायतेः संप्रसारणं च' इत्यादिनिर्देशादकर्तृवाचिन्यपि परे शबादय इत्येव व्याख्येयम् । अन्यथा 'इश्तिपौ-' इति सूत्रे वक्ष्यमाणस्वप्रन्थेन सह विरोधापत्तेः । केचित्तु-शित्त्वात्तिपः सार्वधातुकत्वेन भवतिरित्यादौ 'आर्धधातु. कस्येड् वलादेः' इतीडागमनिवृत्या, ब्रवीतिरित्यत्र 'ब्रुव ईट्' इतीडागमप्रवृत्त्या च शित्त्वं चरितार्थमिति व्याचख्युः, तचिन्त्यम् । 'तितुत्र-' इत्यनेनेरिनषेधादार्धधातु. कत्वेऽपि क्षत्यभावात् । 'ब्रुव ईट्' इत्यत्र त्रुवः परस्य हलादेः पित ईडागम इत्येतन्मात्रस्य मूले व्याख्यातत्वात्सार्वधातुकस्येति विशेषणाभावेऽपि क्षत्यभावात् । न च हलादेः पित्प्रत्ययस्य सार्वधातुकस्येति विशेषणाभावे ब्रुवो लिटि वच्यादेशे सिपस्थलि उवक्थेत्यत्रातिप्रसङ्गः स्यादिति वाच्यम् , थलोऽत्र पित्त्वाभावात् । न च स्थानिवद्भावेन पित्त्वम् , श्नः शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति तनिषेधात् । तस्मात्पूर्वोक्तरीत्यैव श्तिपः शित्त्वसामर्थ्यादकर्तयपि शपः प्रवृत्तिरिति अन्थो निराकर्तव्य इत्याहुः । तदपरे न क्षमन्ते । थलः पित्त्वाभावे हि 'असंयोगाल्लिट कित्' इति कित्त्वाद् ‘वचिखपि-' इति संप्रसारणे सत्युवचिथ उवक्थेति न सिध्येत् किंतु ऊचिथ ऊक्थेति स्यात् । तस्मात्स्थानिवत्त्वेन थलः कित्त्वेऽभ्युपगते उवक्थेत्यादा