________________
२४ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
स्याल्लिटि । २१८२ अभ्यासे चर्च । ( ८-४-५४ ) श्रभ्यासे झलां चरः स्युजंशश्च । झशां जशः । खयां चरः । तत्रापि प्रकृतिजशः प्रकृतिजशः, प्रकृतिचरां प्रकृतिचर इति विवेकः, श्रान्तरतम्यात् । २१८३ सिद्धवदत्राभात् । धातोरभ्यासस्य भवन्नकार. 'अलोऽन्त्यस्य' इत्यन्त्यस्योकारस्य भवति, तदाह अभ्या सोकारस्येति । 'नानर्थकेऽलोन्त्यविधिः -' इति तु नेह प्रवर्तते । अनभ्यासविकार 1 इत्युक्तेः । भ भूव् अ इति स्थिते अभ्यासे चर्च । 'मालां जश् झशि' इस्माद् लामित्यनुवर्तते । चकारेण जश् समुच्चीयंत, तदाह अभ्यासे झलामित्यादिना । भलश्चतुर्विंशतिः । तत्र शषसाः शरः । तेषामभ्यासे लोपो वक्ष्यते 'शर्पूर्वाः खयः' इति । हकारस्य त्वभ्यास 'कुहोस्ः' इति चुवं वक्ष्यते । एवं च झत्यु भयो विंशतिरिहाभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मध्ये कस्य चरः कस्य जश इत्याकाङ्क्षायामाह झशां जश इति । वर्गाणां तृतीयचतुर्था कशः । तेषां जशो जबगडदा इत्यर्थः । यद्यद्वयः स्थानिनः तत्तद्वय आदेशा इत्यपि बोध्यम् । खयां चर इति । वर्गाणां प्रथमद्वितीयाः खयः, तेषां चरः चटकतपा इत्यर्थः । अत्रापि यद्यद्वयः स्थानिनः तत्तद्वर्या आदेशा इत्यपि बोध्यम् । तत्रापीति । तेष्वपि चर्येषु प्रकृत्या स्वभावेन जशामेव सतां प्रकृत्या स्वभावेन जश एवं सन्तः तत्तद्वय आदेशाः स्युः । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तः तत्तद्वर्ग्या आदेशाः स्युरित्यर्थः । पर्जन्यवल्लक्षण प्रवृत्तेरिति भावः । कुत इयं व्यवस्थेत्यत श्राह श्रान्तरतम्यादिति । कशां जशांच घोषसंवारनादप्रयत्नसाम्यम् । खयां चरां च श्वासाघोषविवारप्रयत्नसाम्यम् । तत्तद्वयणां तनद्वय आदेशा इत्यत्र तु स्थानसाम्यं नियामकं बोध्यम् । तथा च प्रकृतेः अभ्यासभकारस्य बकारे सति बभूव् अ इति स्थिते 'अचिरनुधातु -' इत्युवङादेशमाशङ्कितुमाह । श्रसिद्धवदत्र | षष्टस्य चतुर्थपादे इदं सूत्रम् । 'नान्नलोपः' इति सूत्रात् पूर्वं पठितम् । श्रभादित्यभिविधावाङ् । भस्येत्यधिकारमभिव्याप्येत्यर्थः । भाधिकारश्च पादपरिसमाप्तेरिति सिद्धान्तः । तथा च पादपरिसमाप्तेरिति लभ्यते । विद्दितं कार्यमिति शेषः । वतिप्रसङ्गवारणाय पितः सार्वधातुकस्येडागम इति व्याख्यातव्यमेव, तथा च ब्रवीतिरित्यत्र ईडागमप्रवृत्त्या शित्त्वं चरितार्थमिति कैश्चियदुक्तं तदपि सम्यगेवेति । असिद्धवदत्राभात् । वत्करण प्रतिपत्तिलाघवाय अन्यथा सिद्धे प्रसिद्ध इति प्रयुज्यमानमनुपपन्नं सत्सामर्थ्यादसिद्धवदिति कल्पनीयं स्यात् । यथा राजभिन्ने पुरोहिते राजायमिति प्रयोगो राजवदिति कथंचित्कल्पयति, राजवदयं पुरोहित इत्युक्ते तु लघुप्रतिपत्तिर्भवति, तथा चागल्या 'बत्वतुकोरसिद्धः' इत्यत्रासिद्धवदिति कल्प्यते ।