________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५ (६-४-२२) इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये किमारभ्येत्याकांक्षायामुपस्थितत्वादस्मादव सूत्रादूमिति लभ्यते। ततश्च नान्नलोपः' इत्यारभ्यापादसमाप्तेः विहितं यदाभीयं कार्य तदसिद्धवद्भवति । प्रवृत्तमप्यप्रवृत्तवद् भवतीत्यर्थः । अधिकारसूत्रमिदमुत्तरत्र 'नान्नलोपः' इत्यादौ प्रतिसूत्रमुपतिष्ठते । तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्ये इति लभ्यते । एवं च 'नान्नलोपः' इत्यादि तत्तदाभीयं कार्य 'श्नान्नलोपः' इत्याद्याभीये कार्ये कर्तव्ये असिद्धवदित्यर्थः पर्यवस्यति । अत्रत्यनेन निमित्तसप्तम्यन्तन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्त के कार्ये कर्तव्ये सतीत्यर्थलाभात् समानाश्रये कार्य कर्तव्ये सतीति लभ्यते। एतत्सर्व भाष्ये स्थितम् , तदाह इत ऊर्ध्वमित्यादिना । तस्मिन्निति । भाभीये कर्तव्ये सतीत्यर्थः । एधि शाधीत्युदाहरणम् । अत्र 'ध्वसोरेद्धावभ्यासलोपश्च' इत्यस्तरेत्वस्य 'शादी' इति शास्तेः शाभावस्य चाभीयत्वेनासिद्धत्वाद् हुमल्भ्यो हेधिः' इति हेधित्वमाभीयं प्रवर्तते । तथा जङ्घहीत्याद्यप्युदाहरणम् । हनधातोयङलुगन्ताद् 'असंयोगालिट् किन्' इत्यत्रापि किद्वदित्यगत्येव कल्प्यत इति ज्ञेयम् । श्रा भादित्यभिविधावाङ् । भाधिकारमभिव्याप्येत्यर्थः । अधिकारश्चायम् । अत्रग्रहणं समानाश्रयप्रतिपत्त्यर्थम् । श्राभाद्ग्रहणं विषयनिर्देशार्थम् । भाधिकारस्यावधिलाभस्तु 'अङ्गस्य', 'प्रत्ययः' 'परश्च' इत्यादाविव व्याख्यानेनेत्र सिध्यति । एवं च 'अनुदात्तोपदेश-' इत्यवास्योपस्थाने सत्ययमर्थो भवति–एषामनुनासिकस्य लोपः स्याज्झलादौ क्ङिति परे, स चासिद्धो भवति । अत्र झलादिकिदाश्रित्येव यदाभीयं प्राप्नोति तस्मिन्कृते सति जङ्गहि जङ्घहि 'अतो हेः' इति लुग् न भवति, अनुनासिकलोपस्य हिशब्दाश्रितत्वेनासिद्धत्वात् । नन्वस्याधिकारत्वे यत्र यत्रोपस्थानं तत एवारभ्य यदाभीयं तस्मिन्नेव कर्तव्येऽसिद्धत्वं स्यान्न तु ततः पूर्वस्मिन्नपि । ततश्च 'ध्वसोः-' इत्येत्वं पूर्वस्मिन्नपि धित्वे कर्तव्ये नासिद्धं स्यादिति चेत् । भवेदयं दोषः शब्दाधिकारे । अर्थाधिकारस्त्वयम्। ततश्चेहनान्नलोपः' इत्यवधिनिर्णीतः स एव प्रतिसूत्रमुपतिष्ठते, तदेतत्सकलमभिप्रेत्याह इत ऊर्ध्वमिति । अत्रापि शास्त्रासिद्धत्वमेवाकरे स्थितम् । तेन एधि शाधीत्यत्र स्थानिनो झलन्तत्वबुद्धेरनिवर्तितत्वात्तन्निबन्धनं 'हुमल्भ्यो हेधिः' इति धित्वं सिद्धयति । प्राचोक्तकार्यासिद्धत्वपक्षे तु न सिद्धयति । देवदत्तस्य हन्तरि हते देवदत्तस्य जीवनं नेति न्यायेन एत्वविधिना झाल्बुद्धौ निवर्तितायां पश्चादेत्वबुद्धिनिवर्तनेऽपि धित्वकार्यस्याप्रवृत्तरित्याहः । समानाश्रये इति किम् , पपुषः। चिच्युषः । लुलुवुषः । इह पाधातो. श्चिओ लूबश्च परस्य वसोर्यत्संप्रसारणं तत् 'अातो लोप इटि च' इत्यालोपे 'एरनेकाचः-' इति यण्युवङि च कर्तव्ये नासिद्धम् , आलोपादीनि हि कसौ, संप्रसारणं तु