________________
२६ ]
सिद्धान्तकौमुदी।
[ भ्वादि. तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते–'बुग्युटावुवङ्यणोः सिद्धौ लोरमध्यमपुरुषैकवचने सिपो हिभाव अनुदात्तोपदेश-' इति नलोपस्याभीयस्यासिद्धत्वाद् 'अतो हेः' इत्याभीयो लुङ् न भवति । 'समानाश्रये' इति किम् ? पपुष इत्यत्र पाधातोलिटः कसौ 'लिटि धातो:-' इति द्वित्वे अभ्यासहवे क्वस्वन्ताद् द्वितीयाबहुवचने शसि 'वसोः संप्रसारणम्' अाभीयम् 'अातो लोप इटि च' इत्याल्लोपे आभीये कर्तव्ये प्रसिद्ध न भवति । आलोपः क्वसौ, संप्रसारणं तु शसीति भिन्नाश्रयत्वात् । 'भाभीये कर्तव्ये' इति किम् ? अभाजि राग इत्यत्र भश्चिणि, रघमि च कृते. 'भञ्जश्च चिणि' 'घञि च भावकरणयोः' इति नलोपस्याभीयस्यानाभीयायामुपधावृद्धौ कर्तव्यायां नासिद्धत्वम् । 'आभादित्यभिविधिः' किम् ? भाधिकारात् प्रागित्युक्ते भूयानित्यत्र 'वहोर्लोपो भू च बहोः' इति बहोर्भूभावस्य ओर्गुणे कर्तव्ये प्रसिद्धत्वं न स्यात् , भस्यति सूत्रादूर्वभावित्वादित्यलम् । इति वुकोऽसिद्धत्वादिति । बुक अाभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्ये असिद्धतया ऊकारस्योवडि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः । वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः । वुग्युटावुवङयणोरिति । यथासंख्यमन्वयः । बभूवेति । णलो णित्त्वं तु विभक्ताविति व्याश्रयत्वात् । न च बहिरङ्गत्वेनासिद्धताऽस्त्विति शङ्कयम् , 'नाजानन्तर्य-' इति निषेधात् , 'वाह उठ्' सूत्रस्थबहिरङ्गपरिभाषाया अप्याभीयत्वेनाss. लोपादिषु कर्तव्येष्वसिद्धत्वाच्च । न चोक्लपरिभाषाया आलोपादीनां च समानाश्रयत्वं नेति शङ्कयम् , वसोः संप्रसारणे कृते ह्यजाद्याश्रयेणाऽऽलोपादीनि प्रवर्तन्ते, तेषु कर्तव्येषु संप्रसारणस्यासिद्धत्वाय तद्विषये बहिरङ्गपरिभाषाऽपि प्रवर्तत इति तेषां तत्सत्त्वादिति दिक् । विषयलाभार्थमाभाद्ग्रहणं किम् , आभीयं प्रत्येवाभीयमसिद्धं नान्यं प्रतीति यथा स्यादित्येवमर्थम् । तेन अभाजि राग इत्यत्र ‘भजेश्च चिणि' 'रजेश्च' 'घनि च भाक्करणयोः' इति नलोपे कृते तस्यासिद्धत्वाभावाद् 'अत उपधायाः' इति वृद्धिर्भवतीत्याहुः । स्यादेतत् , देभतुः देभुरित्यत्र 'श्रन्थिप्रन्थिदम्भि-' इति वक्ष्यमाणवचनेन लिटः कित्त्वान्नलोपेऽप्येत्वाभ्यासलोपौ न स्याताम् , नलोपस्यासिद्धत्वात् । अत्राहुः-'नसोरल्लोपः' इति तपरकरणाल्लिङ्गादाभीयासिद्धत्वमनित्यमिति नास्त्यत्र दोषः । तपरकरणं हि आस्तामित्यत्राडागमस्य लोपो मा भूदित्येतदर्थम् । यद्याडागमः श्रसोरल्लोपं प्रत्याभीयत्वेनासिद्धः स्यातर्हि किं तेन तपकरणेन । एवं च 'दम्भेश्च' इति वक्ष्यमाणं नापूर्वं वार्तिकं किं त्वनित्यत्ववललभ्यमेवेति । वुक इति । 'भुवो युक्-' शास्त्रस्य । एवमग्रेऽपि । युट उदाहरणं दिदीपे । बभूवेति । अत्र प्राचा 'इन्धिभवतिभ्यां च' इति सूत्रं पितोऽपि लिटः कित्त्वार्थमिति व्यार याय 'अचोऽणिति'