________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [२७ वक्रव्यो' । बभूव बभूवतुः बभूवुः । २१८४ आर्धधातुकस्येवलादेः । जगादेत्यादौ वृद्धयर्थम् । बभूवतुरिति । तसः अतुसादेशे युगादि पूर्ववत् । सकारस्य रुत्वविसौ । वभूवुरिति । मेरुसादेशे वुगादि पूर्ववत् । सिपः थलि बभू थ इति स्थिते आर्धधातुकस्येद् । 'नेड्वशिकृति' इत्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं इति वृद्धिप्राप्तौ 'क्छिति च' इति निषेध इत्युक्तं तदुपेक्षितम् । इग्लक्षणयोरेव गुणवृद्धयोनिषेध इति सिद्धान्तात् । अन्यथा इक्स्थानिकयोनिषेधे लैगवायन इत्यत्रापि वृद्धिन स्यात् । न चात्र कित्त्वसामर्थ्यादनिग्लक्षणाया अपि वृद्धनिषेध इति वाच्यम् , थलि उत्तमे णलि च गुणनिषेधेन 'कित्त्वस्य चरितार्थत्वात् । सूत्रं तु प्रत्याख्यातमेवाकरे । तथा च वार्तिकम् ‘इन्धेश्छन्दोविषयत्वाद् भुवो वुको नित्यत्वात्ताभ्यां लिटः किवचनानर्थक्यम्' इति । यद्यपीह शब्दान्तरप्राप्त्या वुको नित्यत्वं नास्ति, तथापि कृताकृतप्रसङ्गित्वमात्रेणापि क्वचिन्नित्यता स्वीक्रियत इति पक्षोऽप्यस्मादेव वार्तिकादवगम्यते, तेन रणिचि परामप्युपधावृद्धिं बाधित्वा नित्यत्वाद् 'रथिजभोरचि' इति नुमि कृते रन्धयतीति सिद्धम् । नन्वमपि संयोगात्परस्य लिटः कित्त्वार्थमिन्धेश्चत्यंशोअपेक्षित एव । अन्यथा 'समीधे दस्यु हन्तमम्' इत्यत्रेन्धेनलोपो न स्यात् । मैवम् , 'छन्दस्युभयथा' इति सूत्रेण हि सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा च विधीयते, तेन 'सार्वधातुकमपित्' इति लिटो ङित्त्वे स्यादेव नलोप इति वार्तिकाशयात् । अत्र नव्याः-बभूवेत्यत्र 'द्विवचनेऽचि' इत्यजादेशस्य निषेधाद् गुणवृद्धिभ्यां प्रागेव वुकः प्रवृत्त्या भुवो वुको नित्यत्वादिति वार्तिके नित्यत्वादिति हेतूपन्यासो निष्प्रयोजनः, शब्दान्तरस्य प्राप्त्या वुको नित्यत्वं नास्तीत्याशङ्कय कृताकृतप्रसङ्गित्वमात्रेणापि कचिनित्यत्वं स्वीक्रियत इत्यादिसमाधानमपि व्यर्थमेवेत्याक्षिप्य स्वयमेव समादधुः । षाष्ठद्वित्वप्रकरणान्ते हि वार्तिककृता पूर्बविप्रतिषेधः पठ्यते, 'द्विर्वचनं यशयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः' इति । तथा च 'द्विवचनेऽचि' इति सूत्रं नारम्भणीयमित्याशयेन नित्यत्वादिति हेतुरूपन्यस्त इति । 'द्विवचनेऽचि' इति सूत्रेणाजादेशस्य स्थानिवद्भावो विधीयत इति पक्षे तु द्वित्वात्प्रागेव वृद्ध्यायादेशस्य खीकृतत्वादादेशानन्तरमपि वुकः प्रवृत्तिरस्तीति भुवो वुको नित्यत्वादित्यादिग्रन्थः सम्यगेव । न चैवमपि नामधातुषु त्वापयति मापयतीत्यत्र मपर्यन्तस्य त्वमौ पररूपात्पूर्व नित्यत्वाट्टिलोप इति ग्रन्थः कथं सङ्गच्छेतेति वाच्यम् , 'प्रकृत्यैकाच्' इति सूत्रं भाष्ये प्रत्याख्यातमित्याशयेन तत्प्रवृत्तेः । अतएव त्वादयति मादयतीत्येव न्याय्यमिति तत्रोकमिति दिक् । आर्धधातुकस्येवलादेः । 'नेड्वशिकृति' इत्यत इडित्यनुवर्तमाने पुनरिग्रहणं निषेधसम्बद्धस्येटो निवृत्त्यर्थम् । वस्तुतस्तु 'समर्थानां प्रथमावा' इत्यनु