________________
२८) सिद्धान्तकौमुदी।
[ स्वादिः (७-२-३५ ) वलादेरार्धधातुकस्येडागमः स्यात् । बभूवेथ बभूवथुः बभूव ! न कार्यमिति 'नेड्वशि-' इति सूत्रभाष्य प्रत्याख्यातम् । 'या धातुकन्य' इति किम् ? जुगुप्सते । अत्र 'गुप्तिकिद्भधः-' इति सनो धातोरित्यधिक य विहितत्वाभावान्नार्धधातुकत्वम् । बभूविथेति ! सिपः थलि तस्य इडागम वुयादि पूर्ववत् । वभूवथु. वृत्तस्य पदत्रयस्य मध्ये 'प्राग्दिशः' इत्यनन्तरं 'समर्थानां प्रथमान्-' इति निवृनं 'वा' इति त्वनुवर्तत इति व्याख्यानमिव नेति निवृत्तम् , इडिला नुवतंत इति व्याख्यातुं शक्यत्वादिड्ग्रहणं त्यक्तुं शक्यम् , तथापि स्पष्ट प्रतिपत्त्यर्थं स्वीकृतमिति बोध्यम् । आर्धधातुकस्येति किम् , आस्ते, शेते । वलादेः किम् , एधन यम् । ननु 'रुदादिभ्यः सार्वधातुके' इत्यनेन सावधातुकस्य यदी भवति तर्हि रुदानि भ्य एवेति नियमादास्ते शेत इत्यत्र इट् न भवेदित्याधधातुकस्यति ग्रहणं व्यर्थम् । न च सदादिभ्यः सावेधातुक एवेति विपरीतनियमाद्रोदितत्यत्र न स्यात् , अास्ते ोत इत्यत्र तु स्यादिति शङ्कयम् , 'रुदविदमुषग्रहिस्वपिप्रच्छः संश्च' इति क्त्वासनोः कित्त्वस्य ययप्रसङ्गात् , त्वदुक्तरीत्या रुदादेः क्त्वासनोरिडागमाभावेन 'न क्त्वा ले' इति निषेधाप्रवृत्त्या क्त्वाप्रत्यये औपदेशिककित्वस्य सुस्थत्वात् । 'हलन्ताच्च' इति कलादिसनः कित्वाच । तस्माद्विपरीतनियमासम्भवनार्धधातुकग्रहणं व्यथमेव । ननु तद्ग्रहणाभावे वलादेरित्यस्याङ्गस्येति यदधिकृतं तद्विशेष्यं स्यात् , ततश्च अडाटाविवेडागमोऽप्यनस्य स्यात् । मैवम् , कृतऽप्यार्धधातुकग्रहरणे वलाद्यार्धधानुकस्य यदङ्गं तस्येडागम इति व्याख्यानापत्त्योक्तदोषतादवस्थ्यादकृतेऽपि तद्ग्रहणेऽस्य यो वलादिरगानिमित्तं तस्येडिति व्याख्यानादिष्टसिद्धेश्च । तस्मादुभयथापि व्याख्याने शरणीकर्तव्ये 'आधधातुकस्य-' इत्यस्य त्याग एव श्रेयान् । नन्वेवं केशवः, अङ्गना, वृक्षत्वमित्यत्रेद स्यात् , 'ऋत इद्धातोः' इत्यतो धातोरित्यनुवर्तनादधाताः परस्य न भवतीति परिहारसम्भवेऽपि लूभ्यां पूभ्यामित्यत्र दुर्वार एवेडागमो विहितविशेषणनाप्यचं वारयितुमशक्यः, क्विबन्ता धातुत्वं न जहतीति पूभ्यां पूभिरित्यत्र भ्यामादेर्धातोविहितत्वानपायात् । किं च जुगुप्सते इत्यादौ 'गुप्तिज्किन्यः-' इति धातोविहितस्य सन इट दुर्वारः । न चेह धातोः परत्र विहितस्य वलादेरिति व्याख्यानलाभाय धातोरिति पञ्चम्यन्तमपेक्षितं तच्च दुर्लभम् ‘त इद्धातोः' इत्यत्र धातोन्त्यिस्य षष्ट्यन्तत्वात् , तथा च वृक्षत्वमित्यादावपीडागमप्रसङ्ग इति वाच्यम् , शब्दाधिकारपक्षे खरितत्वेन तत्सदृशशब्दोऽनुमीयत इति पञ्चम्यन्तलामात् । अस्तु वा षटचन्तत्वम् , विहितत्वं षष्टयथ इति व्याख्यायामिष्टसिद्धेः । तस्माज्जुगुप्सत इत्यादावतिप्रसङ्गवारणार्थमार्धधातुकस्येति ग्रहणम् । केचित्तु-धातोरित्यावर्त्य धातोरित्युच्चार्य विहितो यः प्रत्यय