________________
प्रकरणम् ४३] बालमनोरमा-तत्त्ववोधिनीसहिता। [२६ बभूव बभूविय बभूविम । २१८५ अनद्यतने लुट् । (३-३-१५) भविष्यत्यनद्यतनेऽर्थे धातोढुंट स्यात् । २१८६ स्यतासी ललूटोः। (३-१-३३) 'लु' इति तृइलुटोहणम् । धातोः स्यतासी एतौ प्रत्ययौ स्तो लुलुटोः परतः । शबायपवादः । २१८७ आर्धधातुकं शेषः। (३-४-११४) तिशिद्भयोऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् । २१८८ लुटः प्रथमस्य डारौरसः । (२-४-८५) डा, रौ, रस् एते क्रमास्युः । डित्त्वसामर्थ्यादभस्यापि रिति । थसः गृथुसादेश बुगादि पूर्ववत् । सकारस्य रुत्वविसौं । बभूवेति । मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इति 'परस्मेपदानां गलतुस्-' इत्यत्रोहम् । युगादि पूर्ववत् । बभूवेति । मिपो गलि वुगादि पूर्ववत् । बभूविवेति । वसो वादेशे वलादित्वादिडागमे युगादि पूर्ववत् । नचात्र 'श्रयकः किति' इतीडागमनिषेधः शङ्कयः, 'कृसभृवर तुद्रसाश्रुवो लिटि' इति क्रादिनियमादिसिद्धः । वभूविमेति । ममो मादेशे इडागमे बुगादि पूर्ववत् । इति लिट्प्रक्रिया। अनद्यतने लुट् । धातोरित्यधिकृतम्। 'भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवर्तते । भविष्यत्यनद्यतन इति धात्वर्थऽन्वेति । तदाह भविष्यत्यनद्यतन इति । अनद्यतनशब्दस्तु परोने लिडित्यत्र व्याख्यातः । उटावितौ । लुटस्तिबादयः । भू ति इति स्थिते 'कर्तरि शप' इति शपि प्राप्ते स्यतासील । स्यश्च तासिश्चेति द्वन्द्वात् प्रथमाद्विवचनम् । तासेरिकार उच्चारणार्थः । ल लुट् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् । ग्रहणमिति । लस्वरूपस्योभयत्राविशिष्टत्वादिति भावः । 'धातोः' इत्यधिकृतम् , तदाह धातोरिति । भू तास् ति इति स्थिते आर्धधातुकं शेषः। 'तिशित्सार्वधातुकम्' इति पूर्वसूत्रोपात्ततिशिदन्यः शेषः, तदाह तिशिद्भयोऽन्य इति । विहित इति । धातोरित्यधिकृतं विहितविशेषणमाधीयत इति भावः । एवं च जुगुप्सत इत्यादौ 'गुप्तिजिकद्भयः-' इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाभावेन आधधातुकत्वाभावादिडागमो न भवति । एतत्संज्ञः स्यादिति । आर्धधातुकसंज्ञक इत्यर्थः। इडिति। तास्प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात् स्वतो वलादित्वाच्च 'आर्धधातुकस्येवलादेः, इतीडागम इत्यर्थः । भू इ तास् इति स्थिते, ऊकारस्य गुणे अवादेशे च भनिता स् स्तस्येडिति यदि व्याख्यायेत तदा लूभ्यां जुगुप्सत इत्यत्रातिप्रसङ्गाभावादार्धधातुकस्येति व्यर्थमित्याहुः । वभूविवेति । न चात्र 'भ्युकः किति' इतीरिनषेधे युगागमोऽपि न स्यादिति शङ्कयम् , कादिनियमादिटः प्रवृत्तेः । अनद्यतने । अतीताया रात्रेः पश्चार्धनागामिन्याः पूर्वार्धेन सहितो दिवसोऽयतन इति 'कालोपसर्जने च तुल्यम्' इत्यत्र स्थितम् । आर्धधातुकम् । धातोरिति । धातोरेकाच-' इत्यतो धातो