________________
३० ]
सिद्धान्तकौमुदी ।
[ भ्वादि
टेर्लोपः । २१८६ पुगन्तलघूपधस्य च । ( ७-३-८६ ) पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्यवहितेऽपि, वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् श्रा, अत्रेको गुणे प्राप्ते । २१६० दीधीवेवीटाम् । (१-१-६) दीधीवेव्योरिटश्च
1
इति स्थिते लुटः प्रथमस्य डा । डा रौ रस् एषां द्वन्द्वात् प्रथमाबहुवचनम् । लुट इति स्थानषष्टी लुडादेशस्य प्रथमपुरुषस्येत्यर्थः । क्रमादिति । यथासंख्यलभ्यम् । ननु परस्मैपदस्य त्रयः प्रथमा श्रात्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, प्रदेशस्तु त्रय इति कथं यथासंख्यमिति चेन्न । डाश्च रौश्च स चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेति एकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाभावेन 'चुटू' इत्यस्याप्रवृत्त्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वाच्चट् इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् । एवं च भूतास् इति स्थिते प्रक्रियां दर्शयति डित्त्वसामर्थ्यादिति । डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तभूतत्वेन तस्मिन् परे भत्वाभावेऽपि डित्त्वसामर्थ्यात् टेरिति टिलोप इत्यर्थः । तथा च भवित् श्रा इति स्थिते पुगन्तलघू । 'मिदेर्गुणः' इत्यतो 'गुणः' इत्यनुवर्तते । ‘अङ्गस्य' इधिकृतमवयवषष्ठयन्तमाश्रीयते । पुगन्तलघूपधस्येति तद्विशेषणम् । पुक् अन्तो यस्य तत् पुगन्तम् । लघ्वी उपधा यस्य तल्लघूपधम् । पुगन्तं च लघूपधं चेति समाहारद्वन्द्वात् षष्टी । 'इको गुणवृद्धी' इति परिभाषया 'इक:' इत्युपस्थितं स्थानषष्ट्यन्तमाश्रीयते । तदाह पुगन्तस्येत्यादिना । अङ्गस्येक इति । अङ्गावयवस्येत्यर्थः । द्वेष्टि द्वेष्टा इत्याद्युदाहरणम् । नन्वत्राङ्गावयवस्येकः तदुपरितनहला व्यवधानात् सार्वधातुकपरत्वाभावात् कथमिह इको गुण इत्यत श्राह येन नेति । येन स्थान्युत्तरवर्णेन परनिमित्तस्य नाव्यवधानं व्यवधानं अवर्जनीयमिति यावत् । तेन वर्णेन व्यवहितेऽपि परनिमित्तं कार्यं भवतीत्यर्थः । कुत इत्यत श्राह वचनप्रामाण्यादिति । तथाविधवर्णव्यवधानेऽपि कार्यप्रवृत्तौ वचन रम्भस्यैव प्रमाणत्वादित्यर्थः । लघूपधस्य हीको गुणो विधीयते । उपधात्वं चान्त्यादलः पूर्वस्यैव भवति । ततश्चेक उपर्यन्त्यस्य वर्णस्याभावे इक उपधात्वाभावाल्लघूपधस्याङ्गस्य गुण. विधानं निर्विषयमेव स्यात् । अतस्तद्यवधानं सोढव्यमिति भावः । ननु व्यवहितस्यापीको गुणप्रवृत्त्यभ्युपगमे भिनत्ति छिनत्तीत्यादौ इकारस्यापि गुणः स्यादित्यत श्राह तेनेति । अवर्जनीयव्यवधानस्यैवाश्रयणेनेत्यर्थः । उपधात्वस्यैकमेव वर्णमुपरितनमादाय रित्यनुवर्तमाने पुनर्धातोरित्यधिकारसूत्रारम्भादिदं लभ्यते । एतच्च तत्रैव मनोरमायां स्पष्टम् । धातोरितिविहित इति किम्, लूभ्याम्, जुगुप्सते । अनेकव्यवहितस्येति ।