________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१ गुणवृद्धी न स्तः । भविता । २१६१ तासस्त्योर्लोपः। (७-४-५०) तासे. रस्तेश्च लोपः स्यात्सादौ प्रत्यये परे। २१६२ रिच। (७-४-५१ ) रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः । २१६३ लट् शेषे च । (३-३-१३) भविसंभवादनेकवर्णव्यवधानं नादर्तव्यमिति भावः । गुणे प्राप्त इति । भवित् आ इति स्थिते डाभावसंपन्नस्याकारस्य स्थानिवत्त्वेन सार्वधातुकतया तस्मिन् परे भवित् इत्यझावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः । न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाङ्गम, न तु भवित् इति विकरणविशिष्टमिति वाच्यम् । अङ्गसंज्ञासूत्रे तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् । दीधीवेवी। दीधीङ् दीप्तिदेवनयोः 'वेवीङ् वेतिना तुल्ये'। दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्टी। 'इको गुणवृद्धी' इत्यतो 'गृणवृद्धी' इति 'न धातुलोप-'इत्यतो 'न' इति चानुवर्तते, तदाह दीधीवेव्योरित्यादिना। अथ प्रथमपुरुषद्विवचने तसि परे शबपवादे तासि इडागमे ऊकारस्य गुणे अवादेशे तसो रौभाव भवितास् रौ इति स्थिते रि चति सकारस्य लोपं वक्ष्यन् तत्रानुवृत्तिप्रतिपत्तये तत्पूर्वसूत्रमुपन्यस्यति तासस्त्योः । तास् चास्तिश्चेति द्वन्द्वात् षष्ठी । 'सस्स्यार्धधातुके' इत्यतोऽनुवृत्तेन सीति सप्तम्यन्तेनाधिकृताङ्गाक्षिप्तप्रत्ययस्य विशेषणात् तदादिविधिः, तदाह तासेरित्यादि । अस्तेरिति रितपा निर्देशः । अस्धातोरित्यर्थः । 'अलोऽन्त्यस्य' इत्यन्त्यस्य लोपः । भवितासीत्यनुपदमेवोदाहरणं वक्ष्यते । रि च । 'तासस्त्योर्लोपः' इति सूत्रम्, अस्तिवर्जमनुवर्तते । रीत्यननाङ्गाक्षिप्तप्रत्ययस्य विशेषणात्तदादिविधिः, तदाह रादाविति । प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नानुवर्तते । ततो रादिप्रत्ययस्यासंभवात् । आर्धधातुके तस्य भूभावविधानात् । एवं च भवितास् रावित्यत्र सलोपे सति रूपमाह भविताराविति । भवितार इति । झो तासि इडागमे ऊकारस्य गुण अवादेश झेः रस् इत्यादेशे तासः सकारस्य लोपे रसः सकारस्य रुत्वविसर्गाविति भावः। भवितासीति । सिपि तासि इडागमे उकारस्य गुणे अवादेशे 'तासस्त्योः -' इति सकारस्य लोप इति भावः । भवितास्थ इति । थसि तासि इडागमे गुणे अवादेशे थसः सस्य रुत्वविसर्गाविति भावः । भविता. स्थेति । बहुवचने थे तासि इटि गुणावादेशौ । भवितास्मीति । मिपि तासि इटि गुणावादेशौ । भवितास्व इति । वसि तासि इटि गुणे अवादेशे रुत्वविसौ । एवं सार्वधातुकादिकमिको विशेषणं न त्वङ्गस्येति भावः । तासस्त्योः । सः स्यार्धधातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात् । 'यस्मिन्विधिःइति तदादिविधिस्तदिदमाह सादाविति । एवं रादावित्यत्राप्यूह्यम् । प्राग्वदिति ।