________________
३२ ] सिद्धान्तकौमुदी।
[भ्वादि. ध्यदर्थाद्धातोलृट् स्यास्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्य इट् । भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविष्यथः भविष्यथ । भविष्यामि भविप्यावः भविष्यामः । २१६४ लोट् च । (३-३-१६२) विध्यादिष्वर्थेपु धातोर्लोट् स्यात् । २१६५ आशिषि लिङ्लोटौ । ( ३-३-१७३) २१६६ मसि भवितास्म इति रूपम् । इति लुट्प्रक्रिया। लट शेपे च । 'धातोः' इत्यधिकृतम्। 'भविष्यति गम्यादयः' इत्यतो 'भविष्यति' इत्यनुवृत्तं धात्वर्थेऽन्वनि, तदाह भविष्य. दर्थाद्धातोः लट् स्यादिति , 'तुमुन्बुलौ क्रियायां कियार्थायाम्' इति पूर्वसूत्रे 'क्रियार्थायां कियायाम्' इत्यर्थनिर्देशः स्थितः, ततोऽन्यः शेषः । कियार्थायां क्रियायाम् असत्यामिति लभ्यते । चकारात् क्रियार्थायां क्रियायां सत्यामित्यपि लभ्यते, तदाह क्रियार्थायां क्रियायामसत्यां सत्यां चेति । ननु 'लुट्' इ येव सूत्रमस्तु । 'शेधे च' इति मास्तु । भविष्यदर्थाद्धातोः लुट् इत्येतावतेव कियार्थायां क्रियायामसत्यां सत्यां च लूटो लाभ इति चेन् मैवम् । 'शयिष्यते इति स्थीयते' इत्यादौ भावकोंः तुमुन्राबुलभ्यां लुटो बाधाभावार्थत्वात् । न च वासरूपविधिना तसिद्धिः शङ्कया, 'लल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति' इति तनिषेधादित्यास्तां तावत् । स्थ इडिति । लुटस्तिपि 'स्यताती ललुटोः' इति स्यप्रत्ययः । तस्य वलाद्यार्थधातुकत्वाद् इडागम इत्यर्थः । भविष्यतीति । स्यप्रत्ययस्य इटि ऊकारस्य गुणे अवादशे प्रत्ययावयवत्वात् सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः । तसादी भविष्यत इत्याद्यप्येवं योज्यम् । भविष्यामीत्यादौ 'अतो दी? यमि' इति दीर्घः इति लुट्प्रक्रिया। लोट् च । 'विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु' इत्लनुवर्तते, सदाह विध्या. तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्य सम्भवात् । लुट शेषे च । 'तुमुन्ण्वुलौ कियायां क्रियार्थायाम्' इति प्रागुतं ततोऽन्यः शेष इत्याह असत्यामिति । चार्थमाह सत्यामिति । हरदत्तस्त्वाह- स्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते । एवं च शेषे चेति मुत्यजमिति तचिन्त्यम् । शयि. ध्यत इति स्थीयत इत्यादौ तुमुना लुटो बाधापत्तेः । कल्युटतुमुन्तलई पु वासरूपविधेरभावात् । अत्र च ज्ञापकं 'प्रेषातिसर्गप्राप्तकालेषु कृत्याश्च' इत्यत्र लोटा बाधा माभूदिति पुनः कृत्यविधिरित्यादि कृदन्ते वक्ष्यति । इदमपि मापकमित्यन्यदेतत् । यत्त प्राचा भविष्यतीति व्रजतीत्युदाहृतं तदापाततः । तुमुन्विषयेऽपि लुड् भवति तुमुना लगन बाध्यत इत्येतत्प्रतिपादनाय तस्यानुपयोगात् । स हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति, भावे हि सः । समानकरीकेष्वेवेति च वक्ष्यते । लुडियेतावत्सूत्रकरणेऽपि भविष्यतीति व्रजतीत्ययं सिध्यत्येवेत्यास्तां तावत् । लोट् च ।