________________
प्रकरणम् ४६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३ परुः । (३-४-८६) लोट इकारस्य उः स्यात् । भवतु । २१६७ तुह्योस्तातङगशिष्यन्यतरस्याम् । (७-१-३५) आशिषि तुझोस्तातङ् वा स्यात् । अनेकाल्वात्सर्वादेशः । यद्यपि 'ङिच्छ' (सू ४३) इत्ययमपवादस्तथाप्यनन्यार्थडित्त्वेष्वनकादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनदिष्विति । विघ्यादिशब्दा अनुपदमेव लिविधौ व्याख्यास्यन्ते । आशिषि लिङ्।
आशिष्यपीत्यर्थः । श्राशासनमाशीः इष्टप्राप्तीच्छा। लोटस्तिपि विशेषमाह एरुः। 'ए:' 'उः' इति च्छेदः । एरिति षष्ठयन्तम् । इवर्णस्येति लभ्यते । 'लोटो लङ्वत्' हिश्च इत्यतो 'लोटः' इत्यनुवर्तते, तदाह लोट इति । भवत्विति । तिपि शपि गुणे अवादेशे तिप इकारस्य उकारः । अथाशिषि लोटो विशेषमाह तुह्योस्तातङ् । तुश्च तुही, तयोरिति विग्रहः । तातडि उकार इत् । अकार उच्चारणार्थः। तादित्यादेशः शिष्यते । नन किमस्य अनेकाल्त्वात्सर्वादेशता उत ङित्वादन्तादेशतेत्यत आह अनेकाल्त्वात् सर्वादेश इति । ननु 'ङिच्च' इत्यस्य सर्वादेशापवादतया अनङादेरिव तातडोऽप्यन्त्यादेशत्वमेवोचितमित्याशङ्कते यद्यपि ङिच्चेत्ययमपवाद इति। परिहरति तथापीति । परेण बाध्यत इति । तातडादेशे 'डिच्च' इत्ययं विधिः 'अनेकालशित् सर्वस्य' इति परेण बाध्यत इत्यर्थः । ननु 'परनित्यान्तरङ्गापवादानामु. त्तरोत्तरं बलीयः' इति परापेक्षया अपवादस्य प्रबलत्वाद् डिच्चेत्यन्तादेशत्वमेव तातडि युक्तमित्यत आह तातङि मन्थरं प्रवृत्त इति । 'ङिच्च' इति विधिरिति शेषः । तातविषये 'डिच्च' इति विधिर्मन्थरं प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः । कुतो मन्दप्रवृत्तिकत्वमित्यत आह अनन्यार्थत्यादिना। अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते तदनन्यायम् । तथाविधं ङित्वं येषां तेषु अनङादिषु 'डिच्च' इति विधिः चरितार्थो लब्धप्रयोजनक इति कृत्वा मन्दं प्रवृत्त 'इत्यर्थः । तातडो उित्त्वं तु अन्तादेशत्वापेक्षया अनन्यार्थ नेत्याह सम्भवत्प्रयोजनकार इति । सम्भवन्ति प्रयोजनानि अन्यानि यस्य स सम्भवत्प्रयोजनः । तथाविधो डकारो यस्य तथाविधे तातडीत्यर्थः । कथं सम्भवत्प्रयोजनकत्वमित्यत आह 'विधिनिमन्त्रणा.-' इत्याद्यनुवर्तते तदाह विध्यादिष्विति । आशिषि लिङ्लोटौ। ननु विध्यादिसूत्र एव संप्रश्नप्रार्थनाशी:श्वित्युच्यता किमनेन पृथक्सूत्रकरणेनेति चेत् । अत्राहुः-इह हि 'किन्तौ च-' इत्युत्तरसूत्रार्थमाशिषीति तावदावश्यकम् । लिङ्लोटावपीहैव विधेयौ। विध्यादिसूत्रे आशीर्ग्रहणे हि 'स्मे लोट्' इत्यादिना खविषये परत्वाद्वाधः स्यात् । सिद्धान्ते तु परत्वादेष विधिः 'स्मे लोट्' इत्यादेर्बाधक इति महान्विशेष इति । तुह्योस्तातङ् । यद्यपि तियोस्तातबिति व शक्यं तथापि