________________
३४
सिद्धान्तकौमुदी। [ भ्वादि. डकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलस्वात् । भवतात । २१६८ लोटो लङ्वत् । (३-४-८५) तोटो लङ इव कार्य स्यात् । तेन तामादयः सलोपश्च । तथाहि-२१६६ तस्थस्थमिपां तांतगुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतयेति । द्विष्टादि यादौ लघूपधादिगुणनिषेधः । स्तुतात् युतादित्यादौ 'उतो वृद्धि कि हलि' इति विहिताया वृद्धेर्निषेधः । 'वश कान्तौ' उष्टादित्यत्र 'अहिज्यावयि-' इति सम्प्रसारणम् । श्रादिना ब्रूतादित्यत्र 'ब्रुव ईट्' इतीटोऽभावस्य संग्रहः । ननु तातविषये 'लिच्च' इति विधिर्मन्दं प्रवर्तताम्। अथापि 'परनित्यान्तरङ्गापवादानामुत्तरोत्तरं वलीयः' इति न्यारागन परस्यापि सर्वादेश. विधेरपवादभूतेन 'ङिच्च' इत्यनेन बाध एवोचित इत्यत आह इति । इह तातविषये 'अनेकालशित्सर्वस्य' इति सामान्यशास्त्रस्य 'डिच्च' इति विशेषशास्त्रस्य च समबलत्वाद् सामान्यशास्त्रं विशेषशास्त्रेण न बाध्यत इत्यर्थः । अयं भावः--अपवादशास्त्रस्य परनित्यान्तरजापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् । प्रकृते च 'डिच्च' इति विधिः अनकादिङित्त्वमन्तादेशत्वैकप्रयोजनकं प्रयोजनान्तरविरहेण रिवकाशत्वाद् झटिति परिगृह्णन् कृतार्थतामनुभवन् , तातको छित्त्वं प्रयोजनान्त सत्त्वेन सावकाशत्वादुपेक्षत इति । तदुक्तं भाष्ये-'लित्त्वस्य सावकाशत्वाद्विप्रतिषेधा तातङ् सर्वादेशः' इति। अधिकात्तु विस्तरभिया विरम्यते । भवतादिति । आशिषि लोटस्तिपि शपि गुणे शवादेशे उकारे तोस्तातङ् सर्वादेशः । ङकार इत् । द्वितीयत कारादकार उच्चारणार्थः । लोटो लङ्वत् । लङ इव लङ्वत् । 'तत्र तस्येव' इति षष्टयन्ताद्वतिः, तदाह लोटो लङ इवेति । ननु तर्हि 'लुङ्लङ्लुङ्वडुदात्तः' त्यडागमोऽपि स्यादित्यत आह तेनेति । लछ इति स्थानषष्ठयन्ताद् वतिप्रत्यया यणेनेत्यर्थः । अडाग. लाघवाभावादतिप्रसङ्गवारणाय हिशब्दसाहचर्याश्रयणे लोट् इत्यनुवर्तमाने वा गौरवाच्च तुह्योरित्युक्तम् । लोटो लङ्वत् । लोट इत्युपमेये षष्ठीदर्शनगदुपमानादपि षश्यन्तादेव वतिस्तदाह तेनेति । अडाटौ तु नातिदिश्यते । न हि नौ लङः क्रियेते, किंतु लङि अजस्येति भावः । नन्वेमपि यान्तु वान्तु इत्यत्र 'ल : शाकटायनस्य' इति जुस् स्यात् , जुतु विदन्त्विरात्र तु 'सिजभ्यस्त-' इति जुस्स्यात् । अत्राहुः-'विदो लटो वा' इति वाग्रहणमिहानुवर्त्य व्यवस्थितविभाषाश्रयणा न जुस् । यद्वा 'लङः शाकटायनस्य' इति सूत्रे 'नित्यं ठितः' इत्यतो डित इत्यनु वृत्त्येवेष्टसिद्धेर्लङ्ग्रहणमतिरिच्यते, लुङि सिना लुङि स्यप्रत्ययेन च व्यवधानात् , लेङि तु 'झेर्जुस्' इति जुसो विहितत्वाच्च । ठित इत्यस्य लड्येव पर्यवसानात्ततो लङ्ग्रहणं विभज्यते। नियमश्चायं 'लव यो लङ् तस्यैव झर्जुस् , न तु लवद्भ वेन यो लङ् तस्येत्यतो