________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५ तामः । (३-४-१०१) उितश्चतुर्णामेषां तामादयः क्रमारस्युः । २२०० नित्यं डिन्तः। (३-४-६६) सकारान्तस्य डिदुत्तमस्य नित्यं लोपः स्यात् । 'अलोऽन्त्यस्य' (सू ४२) इति सस्य लोपः। भवताम् भवन्तु । २२०१ सेयपिञ्च । (३-४-८७) लोटः सेहिः स्यात्सोऽपिए । २२०२ अतो हे। मस्तु न लो विधीयते। किन्तु लङि अङ्गस्येति भावः। केन तामादयः, केन वा सलोप इत्यत आह तथा हीति । तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः । तस्थस्थमिपाम् । तस् थस् , थ मिप् एषां द्वन्द्वात् षष्टीबहुवचनम् । ताम् तम् त अम् एषां द्वन्द्वात् प्रथमाबहुवचनम् । 'नित्यं तिः' इत्यस्माद् 'डितः' इत्यनुवर्तते, तदाह ङितश्चतुर्णामिति । डितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति । यथासंख्यसूत्रलभ्यमिदम् । नित्यं ङितः। उत्तमपुरुष एवास्य सूत्रस्य प्रयोजनम् । प्रसङ्गादिहोपन्यस्तम् । ‘स उत्तमस्य' इति सूत्रमनुवर्तते । तत्र 'सः' इति षष्ठयन्तम् । तेन उत्तमो विशेष्यते। तदन्तविधिः । 'इतश्च लोपः-' इत्यतो 'लोपः' इत्यनुवर्तते, तदाह सकारान्तस्य जिंदुत्तमस्येति । डितो लकारस्य य आदेश उत्तमपुरुषः तस्येत्यर्थः। 'वैतोऽन्यत्र' इत्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् । 'अलोऽन्त्यस्य, इत्यन्त्यलोपः । भवतामिति । लोटस्तस् , तस्य तामादेशः। शप् गुणावादेशौ। न च तामादेशस्य सर्वादेशत्वात् प्राग् विभक्तित्वाभावाद् 'न विभक्ती तुस्माः' इति निषेधाभावाद् मकारस्येत्संज्ञा शङ्कया, संयोगान्तलोपेन मकारान्तरप्रश्लेषण उपदेशेऽन्त्यत्वाभावात् । भवन्त्विति । लोटो झैः अन्तादेशे शपि गुणे अवादेशे द्वयोरकारयोः पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम् । अथ लोटः सिपि शपि गुणावादेशयोः भव सि इति स्थिते । सेयपिच्च । 'हि' इति नोकदोषः' इति । तचिन्त्यम् , अदुरित्यत्र 'सिजभ्यस्त-' इति नित्यजुसं बाधित्वा परत्वाच्छाकटायनस्येति विकल्पप्रसङ्गात् । तस्मालमहणं शाकटायनसूत्रे कर्तव्यमेव, न तु तदतिरिच्यते । न च 'श्रातः' इति सूत्रेणादुरित्यत्र नित्यं जुस्स्यादिति वाच्यम् , तस्य नियमार्थत्वेन विध्यर्थत्वायोगात् , अन्यथा अभूवन्नित्यत्र 'सिजभ्यस्त-' इति जुस् दुरि एव स्यादिति नव्याः । यदि त्विह 'प्रातः' इति सूत्रमावर्त्य विध्यर्थता नियमार्थता च व्याख्यायेत तदा तूलदोषाभावायवेति समाधानमपि सम्यगेव, शाकटायनस्येति जुसो वैकल्पिकत्वात् , तदभावपक्षे पुनःप्रसङ्गविज्ञानात् । 'सिजभ्यस्त-' इति जुसि वीकृते तु सुतरी सम्यगेव, परं तु जुह्वतु विन्दत्वित्यत्र जुस्वारणाय व्यवस्थितविभाषा त्वाश्रयणीयैवेति दिक् । सकारान्तस्येति । दिल्लकारोत्तमसकारस्येति प्राचो व्याख्यानं त्वयुक्तम् , भूयासमित्यादावतिप्रसङ्गः स्यादिति भावः। डिदुत्तम