________________
३६ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
( ६-४- १०५ ) श्रतः परस्य हेर्लुक्स्यात् । भव-भवतात् भवतम् भवत । २२०३ मेर्निः । ( ३-४-८६ ) लोटो मेर्निः स्यात् । ६२०४ श्राडुत्तमस्य पिञ्च । ( ३-४-६२ ) लोडुत्तमस्याडागमः स्यात्स पिञ्च । हिन्योरुत्वं न । इकारोच्चारणसामर्थ्यात् । भवानि भवाव भवाम । २२०१ अनद्यतने लङ् ।
लुप्त प्रथमकम् । 'लोटो लङ्घत्' इत्यतो लोट इत्यनुवर्तते । तदाह लोटः सेरिति । स्तुहीत्यादौ सिप्स्थानिकस्य है: पित्त्वात्सार्वधातुकमपिदिति ङित्त्वाभावाद् गुणे प्राप्ते
पिद्वचनम् । एवं च ङिद्वत्त्वात् 'क्क्ङिति च' इति गुणो न । 'सेर्हि ङिच्च' इत्येव तु न सूत्रितम् । पितस्सिपः अनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः । भव हि इति स्थिते । अतोहे: । 'अतः' इति पञ्चमी । हेरिति षष्ठी 'चिणो लुक्' इत्यतो लुगित्यनुवर्तते, तदाह श्रतः परस्येति । भवेति । हिविधानं तु स्तुहीत्याद्यर्थमिति भावः । भवतादिति । आशिषि लोट: सिपि तस्य 'पिच' इति हिभावे शपि गुणावादेशयोः 'तो दे:' इति लुकं परत्वाद् बाधित्वा 'तुह्यो :-' इति पक्षे तातङिति भावः । भवतमिति । थसि शपि गुणे अवादेशे च भव शस् इति स्थिते 'लोटो लब्वत्' इति लवत्त्वात्तस्थस्थमिपामिति थसः तमादेशे रूपम् । एवं भवतेति । थस्य तादेश इति विशेषः । लोटो मिपि शपि गुणे श्रवादेशे मि : तस्थस्थामपानित्यमादेशे प्राप्ते मेर्निः । 'लोटो लवत्' इत्यतः 'लोट:' इलनुवर्तते, तदाह लोटो मेरिति । भव नि इति स्थिते । श्रडुत्तमस्य । 'लोटो लवत्' इत्यतः 'लोटः ' इत्यनुवर्तते, तदाह लोडुत्तमस्येति । स्तवानि स्तवावेत्यादौ 'सार्वधातुकमपित्' इति विनिवृत्त्यर्थं पिद्ववचनम् । यद्यपि मिप्स्थानिकस्य नः पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं तथापि वास्मसोराडागमस्याङित्त्वार्थं पिदिति वचनम् । ननु स्तुहि भवानीत्यत्र 'एरुः' इत्युत्वं कुतो न स्यादित्यत श्राह हिन्योरुत्वं नेति । सामर्थ्यादिति । श्रन्यथा 'हु' 'नु' इत्येव विदध्यादिति भावः । भवानीति । आडागमे सवर्णदीर्घः यः । नचात्र लवद्भावादितश्चेति लोपः शङ्कयः, इकारोच्चारणसामर्थ्यात् । अन्यथा मो न इत्येव विदध्यात् । एवं हेरपि बोध्यम् । यद्यपि भवानीत्यादौ 'तो दीर्घो यत्रि' इत्येव दीर्घसिद्धेराडागमविधिर्व्यर्थः । तथापि स्तवानं त्याद्यर्थमावश्यकमिहापि स्यति । डिल्लकारोत्तमस्येत्यर्थः । तेन भवावः भवाम इत्यादौ नातिप्रसङ्गः । सोऽपिचेति । एवं च पित्वेनानुदात्तस्य सिपः स्थाने यो हिरादेशः स तु 'स्थानेऽन्तरतमः ' इत्यनुदात्तो न भवति । 'जहि शत्रून्' 'स्तुहि श्रुतम्' । भवतादिति । लुगाया परत्वाद्धेस्तातङ्, अन्तरङ्गमेव लुग् बाधते न तु परमिति भावः । स पिश्चेति । स इति तच्छब्देन यस्याडागमः स परामृश्यत इत्याहुः । इतश्च । 'इतश्च लोपः-'