________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [३७ (३-२-१११) अनद्यतनमूतार्थवृत्तेर्धातोर्लङ् स्यात् । २२०६ लुङ्लङ्लुङ्. वडुदात्तः। (६-४-७१) एषु परेष्वङ्गस्याडागमः स्यात् , स चोदात्तः । २२०७ इतश्च । (३-४-१००) डितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोप: स्यात् । अभवत् अभवताम् अभवन् । प्रभवः अभवतम् अभवत । अभवम् अभवाव अभवाम । २२०८ विधिनिमन्त्रणामन्त्रणाऽधीष्टसंप्रश्नप्रार्थनेषु न्याय्यत्वादुपन्यस्तम् । भवावेति । लोटो वस् गुणावादेशौ श्राडागमः सवर्णदीर्घः । लड्वद्भावाद् 'नित्यं डितः' इति सकारलोपः । एवं मसि भवामेति रूपम् । इति लोटप्रक्रिया। अनद्यतने लङ् । 'धातोः' इति 'भूते' इति चाधिकृतम् । भूत इति धात्वर्थे अन्वेति, तदाह अनद्यतनभूतार्थवृत्तेरिति । लुङ्लङ्लक्षु । 'अगस्य' इत्यधिकृतम् , तदाह एषु परेष्वङ्गस्येति । अन्तरजत्वाद् नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणे अवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः । लावस्थायामेवाडागम इति तु पक्षान्तरं भाष्ये स्थितम् । इतश्च । 'लस्य' इत्यधिकृतम् । 'इतश्च लोपः परस्मैपदेषु' इत्यस्माद् 'लोपः' इति 'परस्मैपदेषु' इति चानुवर्तते । परस्मैपदेस्वित्येतत् षष्ठया विपरिणम्यते, तदाह ङितो लस्येत्यादिना । 'अलोऽन्त्यस्य' इत्यन्यस्य लोपः, तदाह अभवदिति । अभवतामिति । लङस्तसः तामादेशः शप् गुणावादेशौ अट् । अभवन्निति । झरन्तादेशः । शप् गुणावादेशौ अट् 'इतश्च' इति इकारलोपः । तकारस्य संयोगान्तलोपः। अमव इति । सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ। अभवतमिति । थसस्तमादेशः । शप गुणावादेशौ अट् । अभवतेति । थस्य तादेशे शपि गुणे अवादेशे अटि। अभवमिति । मिपः श्रमादेशे शपि गुणे अवादेशे पूर्वरूपम् । अभवावेति । वसि शपि गुणावादशौ अट् । 'अतो दीर्घो यमि' इति दीर्घः । 'नित्यं डितः' इति सकारलोपः । एवं मसि अभवामेति रूपम् । इति लप्रक्रिया। विधिनिमन्त्रणा। ननु विध्यादयो हि न लिङो वाच्याः । 'लः कर्मणि च भावे च-' इति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् । नच 'लः कर्मणि च-' इति शास्त्रं लिव्यतिरिक्तलकारविषय. कमेवास्त्विति वाच्यम्, तथा सति यजेतत्यादौ कर्तृवाचकत्वाभावेन शबाद्यनापत्तरित्यत इति सूत्रात्परस्मैपदेश्वित्यनुवृत्तं षष्ठयेकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेध्यते तदाह परस्मैपदमिकारान्तं यत्तस्येति । प्राचा तु परस्मैपदेष्विकारस्य लोप इत्युक्तम् , तदयुक्तम् , भवेदित्यादावतिव्याप्तेः। ननु 'अतो येयः' इत्यत्र ईय् दीर्घादिरस्तु, एवं च नोक्लातिव्याप्तिः 'इतश्च' इति तपरकरणात् । अतएव अबोभवीदित्यादापि न दोष इति चेत् । मैवम् , रुदेर्लडि अरुदितामित्यादौ दोषध्रौव्यादिति