________________
३८]
सिद्धान्तकौमुदी। [भ्वादिलिङ् । (३-३-१६१ ) एष्वर्थेषु चोत्येषु वाध्येषु वा लिङ् स्यात् । विधि: प्रेरणम् , भृत्यादेनिकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियंगकरणम् , अावश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सस्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णा पृथुगुपादानं अाह द्योत्येष्विति । 'लः कर्मणि च-' इति सूत्रं सामान्यविषयं सदपि विधिनिमन्त्रणेति विशेषशस्त्रिण न बाध्यते, अविरोधात् । तथा च विध्यादिविशिष्ट कादिषु लिङिति फलतीति मत्वाह वाच्येषु वेति । पक्षद्वयमपीदं भाष्ये स्थितम् । 'विधिः प्रेरणम्' इति भाष्यम् अर्थतस्संगृह्णाति विधिः प्रेरणमिति । ननु निमन्त्रणादीनामपि प्रेरणान्तर्भावात्पौनरुक्त्यमित्यतो व्याचष्टे भृत्यादेनिकृष्टस्य प्रवर्तनमिति । तद्यथा भृत्यं स्वामी वदति-भवान् वस्त्रं क्षालयेदिते। आमन्त्रणाद् भेदं दर्शयितुं निमन्त्रणशब्दं व्याचष्टे निमन्त्रणं नियोगकरणामति । नियोगशब्दस्य प्रेरणशब्दपर्यायत्वभ्रमं वारयति आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनमिति । 'त्रीणि श्राद्ध पवित्राणि दौहित्रः कुतपसि लः' इत्यादिवचनादिति भावः । तद्यथा दौहित्रादीन् प्रति इह श्राद्धे भवान् भुञ्जीतेति । आमन्त्रणं कामचारानुशेति । यथेच्छं क्रियतामित्यभ्यनुज्ञानमित्यर्थः । अधीष्टः सत्कारपूर्वको व्यापार इति । भाष्यवाक्यमिदम् । सत्कृत्य प्रवर्तनमित्यर्थ । अधिपूर्वकस्येषधातो.
र्भावे क्वान्तस्योपसर्गवंशादस्मिन्नर्थे वृत्तिः । अत एव भाष्यप्रयोगादधीष्टशब्दस्य मनोरमाया स्थितम् । विधिनिमन्त्रणा । द्योत्येषु वागेषु वेति । पक्षद्वयस्याप्याकरे स्थितत्वादिति भावः । अत्राये त्वित्थमुपपत्तिः-वि यादीनां प्रत्ययार्थत्वमनुचितम् । तथाहि सति कर्नादीनामर्थानां लकारान्तरे ! तार्थानां विध्यादयोऽर्था बाधकाः स्युः, तथा च लिङः कधिभिधायकत्वं न स्यात् , ततश्च द्विवचनबहुवचने न स्याताम् , शबादयश्च न स्युः, पुरुषव्यवस्था च न स्यात् , पिहितत्वप्रयुक्तस्तृतीयादिविरहश्च न सिध्येदिति । द्वितीये त्वित्थमुपपत्तिः-विध्यादिम्मिः कादयो न बाध्यन्ते परस्परविरोधाभावात् । तथा च 'लः कर्मणि-' इत्यत्र ।। इति बहुवचननिर्देशन सर्वलकाराणां संग्रहाल्लिङादीनामपि कर्नादयोऽर्था भवेयुः किं च कर्नादयोऽपि निरवकाशाः । न च लडादयोऽवकाशाः । न्यायसाम्येन विध्यादिवद्वर्तमानत्वभूतत्वादेरपि तत्तल्लकारवाच्यत्वात् । न चैवं पचतीत्यादौ धात्वर्थ प्रति वर्तमानत्वादेः प्रत्ययार्थतया विशेष्यत्वं स्यात् । तथा चैककर्तृका वर्तमाना पचिक्रियेत्य दिशाब्दबोधवर्णनमयुक्त स्यादिति वाच्यम् , प्रत्ययार्थतया विशेष्यत्वापादनस्य कवितावपि तुल्यत्वात् । ननु प्रत्ययार्थः प्रधान प्रकृत्यर्थो विशेषणमित्यौत्सर्गिकमाख्याते त्यज्यते ‘भावप्रधानमा