________________
प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता।
[३६
पुंस्त्वम् । अधीष्टमित्येव क्वचित्पाठः, माणवकं भवानध्यापयेदित्युदाहरणम् । इदं कार्य न वेति विचार्य निर्धारणं संप्रश्नः, यथा-किं भोः व्याकरणं भवानधीयीतेति। प्रार्थनं याच्या, यथा भवानन्नं मे दद्यादिति । सुवचमिति । प्रवर्तनात्वस्य विध्यादिचतुषु अनुस्यूतत्वादिति भावः । प्रवृत्त्यनुकूलव्यापारः प्रवर्तना। तत्र प्रवृत्तिः शिष्यादिनिष्ठः । तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठः । विस्तरस्तु मञ्जूषायां इष्टव्यः । चतुर्णामिति । विधिनिमन्त्रणामन्त्रणाधीष्टानामियर्थः । ख्यातम्' इति सिद्धान्तानुरोधादिति चेत्तर्हि तत एव नोक्लदोष इति दिक् । प्रवर्तना. यामिति । प्रवर्तना त्वस्य विध्यादिषु चतुर्खनुस्यूतत्वादिति भावः । अत्र वदन्तिप्रवृत्तिः प्रवर्तना चोभयमपि व्यापारः, स च धात्वर्थः । फलव्यापारयोर्धातुवाच्यत्वखीकारात् । तदाश्रयस्तु लकारार्थः, व्यापारत्वेन प्रवर्तनाया धात्वर्थत्वेऽपि (प्रवृत्तत्वात्) प्रवर्तना तु लिङ्त्वादिरूपेण लकारवाच्या द्योत्या चेति पक्षद्वयम् । प्रवृत्तिः पुरुषनिष्ठा प्रार्थी भावनेत्युच्यते । प्रवर्तना तु विधिः, मां प्रेरयतीत्यनुभवाल्लिकादिनिष्ठा शाब्दी भावनेत्युच्यते । वेद एव लिगदिनिष्ठा वक्तुरभावात् , लोके तु पुरुषनिष्टेति केचिदभ्युपगच्छन्ति । प्रवर्तनाया अस्याः पुरुषप्रवृत्तिरेव भाव्या । पुरुषप्रवृत्तेस्तु यजनदानादि भाव्यम् , एवं च धातूपात्तव्यापारस्य विषयविषयिभावेन द्वेधान्वये तात्पर्यप्राहका लिडादय इति द्योतकतापक्ष एव ज्यायान् । लिबत्वादिरूपेण लकारस्य प्रवर्तनायां शक्त्यन्तरकल्पने गौरवात् । एवं णिच्यपि। इयांस्तु विशेषः-णिच्प्रत्ययद्योत्या प्रेरणा सर्वस्मिन्नपि मते पुरुषादिनिष्ठेव न तु णिनिष्ठा, लिडादिद्योत्या तु मतभेदेन लिक्निष्ठा वा पुरुषनिष्ठा वेति । स्यादेतत्-लिादिद्योत्या प्रवर्तना लोके पुरुषनिष्ठेति मते पाचयत्योदनं देवदत्तेन यज्ञदत्त इतिवत् पचेदोदनं देवदत्तेन यज्ञदत्त इति प्रयोगः स्यात् । प्रवृत्त्याश्रयः प्रवर्तनाश्रयश्च लकारेणोक्त इति कर्तरि तृतीया न भवति किं तु. प्रथमैवेति चेत् । तर्हि श्रोदनं देवदत्तो यज्ञदत्तः पचेदिति प्रयोगः स्यात् । अत्राहुः-पुरुषनिष्ठेति मते प्रवर्तना लिडादिवाच्यैव, न तु धातुवाच्या । तथा च लिङपात्तव्यापाराश्रयस्य पुरुषस्य कर्तृत्वाभावासोक्तदोषः । देवदत्तेन पाचयति यज्ञदत्त इत्यादौ तु णिजन्तस्य धातुत्वादातूपात्तव्यापाराश्रयत्वेन प्रयोज्यप्रयोजकयो। रुभयोरपि कर्तृत्वाल्लकारेणानुक्ते प्रयोज्ये कर्तरि तृतीयेति वैषम्यमिति । कौस्तुभादौ तु–'हेतुमति च' इति सूत्रे प्रयोजकव्यापारस्य णिज्वाच्यत्वपक्ष एव मुख्यत्वेन स्थापितः । व्यापारद्वयस्यापि पिच्प्रकृत्यर्थत्वे त्वभीत्यस्य णिजर्थविशेष्यकत्वे अभिसावयति, प्रकृत्यर्थविशेष्यकत्वे तु 'उपसर्गात्सुनोति-' इति षत्वमभिषावयतीति सिद्धान्तस्य खारस्यभङ्गापत्तेरिति । तथा च 'गतिबुद्धि-' इति सूत्रे अणिकर्तेति विशेषणमव्या.