________________
४० ]
सिद्धान्तकौमुदी |
[ भ्वादि प्रपञ्चार्थम् । २२०६ यासुद् परस्मैपदेषूदात्तो ङिच्च । ( ३-४-१०३) लिङः परस्मैपदानां यासुडागमः स्यात् स चोदात्तो ङिच्च । ङिबोक्नेज्ञायते कचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्रः शानचः शित्वमपीह लिङ्गम् ।
I
श्रथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणे श्रवादेशे भव तू इति स्थिते यासुद् पर । 'लिङः सीयुट् ' इत्यतो लिङ इत्यनुवर्तते । षष्ठयर्थे सनमी, तदाह लिङः परस्मैपदानामिति । सीयुटोऽपवादः । यासुटि टकार इत् उकार उच्चारणार्थः । टित्वात् तिबादीनामाद्यवयवः । श्रवयवे ङित्वं च 'अनर्थक्य तदङ्गेषु' इति न्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति । 'आगमा अदात्ताः' इति यासुटः अनुदात्तत्वे प्राप्ते उदात्तवचनम् । इदमेव वचनम् 'आगमा अनुदात्ताः' इत्यत्र ज्ञापकमिति भाष्यम् । स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थं यासुटो ङित्त्ववचनम् । ननु 'यदागमा -' इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः । ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेः यासुटो ङित्त्वविधिर्व्यर्थः । न च स्थानिभूतलिङो ङकारस्याल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधः शङ्कयः, 'घुमास्थागापाजहातिसां हलि' इति क्ङिति विहितस्य इत्वस्य 'न ल्यपि' इति निषेधेन लिङ्गेनानुबन्ध कार्ये अनल्विधाविति निषेधाभावज्ञापनादित्यत आह ङित्वोक्तेरिति । क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति । यामुटो ङित्त्वेन ज्ञायत इत्यन्वयः । तथा च एतज्ज्ञापनार्थमेव यासुटो ङित्वमिति भावः । ज्ञापनफलं तु वक्ष्यमाणेत्यत्र ङोबभावः । अन्यथा लुडादेशस्य शानचः स्थानिवत्त्वेन टित्त्वान् ङीप् स्यात् । ननु ‘क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधः' इत्यत्र यासुटो ङित्त्ववचनं न ज्ञापकम् । अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाभावे सत्यापे यासुटो ङित्त्वस्य तिप्सिप्मिबागमयासुटो ङित्त्वार्थमावश्यकत्वात् । नहि लिङादेशत्वेऽपि तिसिमियां ङित्त्वं स्थानिवत्त्वलभ्यम् । हलरश्नश्शानज्भाविति सूत्रभाष्ये चि पिन्न, पिच्च ङिन्न' इति प्रपञ्चितत्वादित्यस्वरसादाह श्नः शानचः शित्त्वमपीह लिङ्गमिति । इह अनुबन्धकार्येऽपि क्वचिदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे श्राः - श्रप्रत्ययस्य यः शानजादेशः‘इलः श्नश्शानज्झौ' इति विहितः, तस्य शित्त्वमपि लिङ्गम् ज्ञापकमित्यर्थः । वर्तकं स्यात् । त्वन्मते प्रयोजकव्यापारस्यापि णिच्प्रकृत्यर्थत्वेन प्रयोजकस्याप्यणौ कर्तृत्वमिति दिक् । प्रार्थनं याच्या । क्वचिदिति । ज्ञापनफ तं तु वक्ष्यमाणेत्यादौ टिदुगिल्लक्षणङीबभाव इति 'टिड्ढा -' इति सूत्र एवोक्तम् रुयादित्यादौ 'उतो वृद्धिर्लुकि हलि' इति न प्रवर्तते, भाष्ये 'पिच पिन्न, ङिच्च पिन' इति व्याख्यानाद्विशेषविहितेन हित्वेन पित्त्वस्य बाधादित्यादौ वच्यमाणतय यासुटो वित्त्वं न
G