________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४१ २२१० सुद् तिथोः। (३-४-१०७) लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट न बाध्यते, लिडो यासुट तकारथकारयोः सुडिति विषयभेदात् । २२११ लिङः सलोपोऽनन्त्यस्य । (७-२-७६) सार्वधातुकलिडोऽनन्स्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं स्वाशीलिङि । स्फुटतरं तु तत्राप्यात्मनेपदे । २२१२ अतो येयः। (७-२-८०) अतः परस्य अन्यथा स्थानिवत्त्वेनैव तस्य शित्त्वसिद्धेस्तद्वचनं व्यर्थ स्यादिति भावः । अत्र च यद्वक्तव्यं तत् स्त्रीप्रत्ययप्रकरणे वक्ष्यमाणेत्यत्र प्रपञ्चितम् । तथा च प्रकृते भव यास् त् इति स्थिते । सुतिथोः । 'लिङस्सीयुट्' इत्यतो लिङ इत्यनुवर्तते। तिश्च थ् चेति द्वन्द्वात् षष्ठीद्विवचनम् । इकार उच्चारणार्थः, तदाह लिङस्तकारेति । सुटि टकार इत् , उकार उच्चारणार्थः । भव यास् स् त् इति स्थितम् । नन्विह परेण सुटा यासुटः कथं न बाधः, भवेयुरित्यादौ परस्मैपदेषु यासुविधेः चरितार्थत्वादित्याशङ्क्य निराकरोति सुटा यासुद्न बाध्यत इति । तत् कुत इत्यत आह लिङो यासुडिति । लिङः सीयुड् यासुडागमश्च । लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः । तथा च योगपद्यसम्भवाभावात् विप्रतिषेधाभावान परेणापि सुटा यासुटो बाध इति भावः । लिङः स । 'स' इति लुप्तषष्ठीकं पदम् । 'रुदादिभ्यः सार्वधातुके' इत्यतः सार्वधातुक इत्यनुवृत्तं षष्टया विपरिणम्यते, तदाह सार्वधातुक लिङ इति । सकारद्वयस्यापीति । अविशेषात् सकारद्वयस्यापि युगपल्लोपः प्रवर्तते । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति तु पर्यायेण पुनःप्रवृत्तिपरमिति भावः । यद्यपि भव यास स् त् इत्यत्र स्कोरित्येव सिध्यति, तथापि भवेयुरित्याद्यर्थ सूत्रम् । ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह सुटः श्रवणं त्वाशीलिङीति । भूयास्तामित्यादौ 'लिगशिषि' इत्यार्धधातुकत्वेन तत्र सकारलोपस्याप्रसक्तेरिति भावः । व्यञ्जनपरस्यैकस्यानेकस्य वोच्चारणे विशेषाभाव इति भाष्यादाह स्फुटतरं त्विति । ज्ञापकमित्यपरितोषादाह नः शानचः शित्त्वमिति । सुद तिथोः। तकारादिकार उच्चारणार्थः । लिङः सलोपो। 'रुदादिभ्यः-' इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनन्यस्येत्यमेन विशेष्यते तदाह सार्वधातुकलिङो. ऽनन्त्यस्येति । सकारद्वयस्यापीति । अवयवावयवोऽपि समुदायं प्रत्यवयव इत्याश्रयणात्सुटोऽपि लिङ्भक्त्वादिति भावः । आशीलिङीति । भूयास्तामित्यादौ । ननु सुटि कृते 'अनचि च' इति द्वित्वस्यासिद्धत्वात्ततः प्रागेव 'स्को:-' इति यासुटः सकारो लुप्यते, झलि परे यः संयोगस्तदादित्वात् । तथा चैकसकारकं रूपं तुल्यम् । सुडभावे यासुटः सकारस्य द्वित्वे कृते तु सुटि ‘स्को:-' इति सलोपात्सुट एव सकारस्य