________________
४२ ]
सिद्धान्तकौमुदी। [ भ्वादिसार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः। भवेत् । 'सार्वधातुके' किम्-चिकीयात् । मध्येऽपवादन्यायेन हि 'अतो लोपः' एव बाध्येत । भवेदित्यादौ तु परस्वादीर्घः स्यात् । भवेताम् । २२१३ झर्जुस् । तत्रापि आशिषि लिङ्यपि एधिषीष्टेत्यादावात्मनेपदं स्फुटतरं सकारद्वयस्य श्रवणमित्यर्थः । तत्र यासुटोऽभावन सलोपाभावेन च सुट एव सकारस्य पृथक् स्पष्टं श्रवणसम्भवादिति भावः । तथा च भव यात् इति स्थिते । अतो येयः । या इति लुप्तषष्ठीकं पदम् । अत इति पञ्चमी । परस्येत्यध्याहार्यम् । इय इत्यत्राकार उच्चारणार्थः । 'रुदादिभ्यः-' इत्यस्मात् 'सावधातुके' इत्यनुवृत्तम् अवयवषष्ट्या विपरिणम्यते । तदाह अतः परस्येत्यादिना । भव इय् त् इति स्थितम् । गुण इति । 'श्राद् गुणः' इत्यनेनेति शेषः । भवेय् त् इति स्थितम् । यलोप इति । लोपो व्योः-' इत्यनेनेति शेषः । भवेदिति । यलोपात् प्राग हल्ङयादिलोपः संयोगान्तलोपश्च न शङ्कयः, अन्तरङ्गत्वेन यलोपस्य पूर्व प्रवृत्तेः, संयोगान्तलोपस्य त्रैपादिकत्वेनासिद्धत्वाच्चेति भावः । सार्वधातुके किमिति । 'रुदादिभ्यः-' इत्यतस्सार्वधातुक इत्यनुवृत्तिलभ्यं सार्वधातुकावयवस्येति किमर्थमित्यर्थः । भूयादित्यादावाशीलिङि आर्धधातुके अतः परत्वाभावादेव इयादेशाभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिर्व्यर्थेत्याशयः । चिकीर्ष्यादिति । कृञ्धातोः सन्नन्ताद् आशीलिङि तिबादौ चिकीर्ष यादिति स्थिते 'अतो लोपः' इत्यकारलोपे चिकीादिति रूपम् । तत्र 'श्रतो ये पः' इत्यत्र सार्वधातुकप्रहणाननुवृत्तौ चिकीर्ष यादिति स्थिते 'अतो येयः' इति इयादेश श्राद्गुणे यलोपे चिकीर्षेदिति स्यात् । सार्वधातुकग्रहणानुवृत्तौ तु न दोषः, आशीलिंगदेशस्य तिको लिङाशिषीत्यार्धधातुकताया वक्ष्यमाणत्वादिति भावः । ननु आशिषि लिडि चिकीर्ष यादिति स्थिते नित्यत्वाद् 'अतो लोपः' इति अकारलोपे सति अतः परत्वाभावादेव अतो येय इत्यस्याप्रवृत्तेः, तत्र सार्वधातुकग्रहणानुवृत्तिय॑थैवेत्यत आह मध्येउपवादन्यायेन हतो लोप एव बाध्येतेति । षष्ठस्य चतुर्थपादे 'अतो लोपः' इति सूत्रम , सप्तमस्य द्वितीयपादे 'अतो येयः' इति सूत्रम् , सप्तमस्य चतुर्थपादे तु 'श्रतो दी| यमि' इति सूत्रमिति स्थितिः । तत्र आशीलिछि श्रार्धधातुके चिकीर्ष यादित्यत्राल्लोपप्राप्त्या विधिलिङि तु भव यादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति 'मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' इति न्यायेन 'अतो लोपः' एव बाध. द्वित्वे च द्विसकारकमपि रूपं तुल्यमेवेति सुटो विधानं व्यर्थमित्यपरितोषादाह स्फुटतरं त्विति । एधिषीष्टेयादाविति भावः । मध्येऽपवादन्यायेनेति । 'रुदादिभ्यः-'