________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [४३ (३-४-१०८) लिङो झर्जुस स्यात् । ज इत् । २२१४ उस्यपदान्तात् । (६-१-६६) अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्त । परत्वात्रिस्यस्वाच 'प्रतो येयः' (सू २२१२) इति प्राचः । यद्यप्यन्तरणत्वात्पर. रूपं न्याय्यम् , तथापि 'यास्' इत्येतस्य इय् इति व्याख्येयम् । एवं च सखोपस्या. महति । न तु 'अतो दीघा-' इत्यथः । एव चार्धधातुके चिकीर्ष यादिति स्थिते अतः परत्वादियादेशः प्रसज्येतेत्यतिव्याप्तिः स्यादिति स्थितम् । एवं चाव्याप्तिरपीत्याह भवेदित्यादाविति । अतः परस्य इयादेशविधौ सार्वधातुकग्रहणाननुवृत्तौ विधिलिङ. स्तिपि सार्वधातुके भव यादिति स्थिते इयादेशं परत्वाद् बाधित्वा 'अतो दी? यमि' इति यादौ सार्वधातुके परे अतो विधीयमानो दीर्घः स्यात् । ततश्च अतः परत्वाभावादियादेशो न स्यादित्यव्याप्तिः स्यादित्यर्थः । नच इयादेशस्य निरवकाशत्वाद् दीर्घबाधकत्वं शङ्कयम् , चिकीर्ष्यादित्यार्धधातुके दीर्घप्राप्त्ययोग्ये इयादेशस्य सावकाशत्वादिति भावः । भवेतामिति । तसः तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या इत्यस्य इयादेशे आद्गणे यलोपः । अथ लिङो म 'झोऽन्तः' इति प्राप्ते झर्जुस । 'लिङस्सीयुट्' इत्यतो लिङ इत्यनुवर्तते । तदाह लिडो मेरिति । अनेकाल-वात्सर्वादेशः । ज इदिति । जुसः स्थानिवत्त्वेन प्रत्ययत्वात् 'चुटू' इति जकार इत्संज्ञक इत्यर्थः । उसि शपि गुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेश बाधित्वा पररूपप्रवृत्तिं शङ्कितुमाह उस्यप । 'एकः पूर्वपरयोः इत्यधिकृतम् । 'श्राद्गणः' इत्यस्मादादित्यनुवर्तते । 'एवि पररूपम्' इत्यस्मात्पररूपमिति, तदाह अप. दान्तादिति । उसीति । उसि यः अच् उकारः तस्मिन् परत इत्यर्थः । 'इको यणचि' इत्यतः अचीत्यनुवृत्तेः । यद्यपि उसः कृत्स्नस्याकारस्य च उसित्येकादेशेऽपि रूपं तुल्यम् , तथापि 'अकः सवर्णे दीर्घः' इत्यादावुत्तरत्राचीत्यावश्यकमत्राप्यनुवर्तत इति बोध्यम् । भिन्युरित्यायुदाहरणम्। इति प्राप्त इति । भव या उसित्यत्राकारस्योकारस्य चाद्गणं बाधित्वा एकस्मिन्नुकारे पररूपे प्राप्ते सतीत्यर्थः । सति च पररूपे या इत्यस्याभावाद् इय् न स्यादिति मन्यते परत्वादिति । पररूपापेक्षया इयादेशः परो नित्यश्च, अकृते कृते च प्रवृत्तेः। कृते पररूपे य इत्यस्यैकदेशविकृतन्यायेन एकादशस्य पूर्वान्तवत्वेन वा इयादेशस्य निर्वाधत्वात् । ततश्च पररूपं इति सूत्रात्सार्वधातुक इत्यननुवृत्तावयं न्यायः प्रवर्तत इति भावः । अन्तरङ्गत्वादिति। प्रत्ययमात्रापेक्षत्वात् , 'श्रतो येयः' इत्यस्य त्वात्वात्प्रकृतिप्रत्ययोभयसापचवन बहिसा. त्वादिति भावः । नन्वपदान्ताकारस्य जुसश्चाश्रयणात्पररूपस्याप्युभयसापेक्षत्वमस्त्येवेति चेत् । मैवम् , अनेकाश्रयणेऽपि प्रत्सबमात्राश्रयतया प्रकृतेरनाश्रयणात् । ब्यास्येय