________________
४४]
सिद्धान्तकौमुदी। [ स्वादि. पवाद इय' (सू २२१२) इस्यत्र तु सन्धिराईः । भवेयुः । अवे मवेतम भवेत । भवेयम् भवेव भवेम । २२१५ लिङाशिषि । ( ३-४.-११६)
आशिषि विकस्तिडार्धधातुकसंज्ञः स्यात् । २२१६ किदाहिद ! (३-४-१०४) बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीना मन्यन्त इत्यर्थः । ननु पररूम.प्र! धिकारस्थत्वाभावाद् अङ्गानपेक्षत्वाद् अन्तरङ्गम् , इयादेशस्तु आः त्वान् प्रकृतिप्रत्ययोभयसापेक्षत्वाद् बहिरङ्गः । ततश्च परान्नित्यादपीयादेशात् पररूपस्यान्तरणतया बल. वत्त्वात् पररूपमेव इह स्यादिति शङ्कते यद्यपीति । परिहरति तथापीति । 'अतः' 'यास्' 'इयः' इति पदच्छेदः । यासिति लुप्तषष्ठीकं पदम् । ततश्च अतः परस्य यासि. त्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः । ननु लिङः स लोपोऽन त्यस्येति सकारस्त लोप इयादेशं बाधित्वा नित्यत्वात् प्राप्नोतीति ततश्च यास् इत्यस्य य् इति कथमित्यत आह एवं चेति । यासिति सकारान्तस्य इयादेशविधिसामः र्यादेव सकारलोपं बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः । तथा च सकारावस्थायामवर्णात्परत्वाभावेन पररूपस्याप्रवृत्तिरिति भावः। ननु यदि यार इय इतिच्छेदः, तदा सकारस्य रुत्वे, 'भोभगो-' इति यत्वे, 'लोपः शाकल्यस्य' इति तस्य लोपे अतो या इय इति स्यात् । श्रावणे कर्तव्ये यलोपस्यासिद्धत्वादित्यत 'पाह सन्धिरार्ष इति । 'आने मुक्' इति सूत्रे भाष्ये तु 'अतो या इय.' इत्येव र त्रपाठो लक्ष्यते । भवेरिति । सिपि, शपि गुणः । अवादेशः । 'इतश्च' इति इकारलोपः। यासुडा गमः । सकारस्य लोपः । इयादेशः । श्राद्गणाः । यलोपः । रुत्वनि रगा। एवं थस: तमादेशे थस्य तादेशे च, भवेतम् भवतेति च रूपम् । भवेयमि ते । मिपि अमादेशः । शप् । गुणः । अवादेशः । यासुट् । सलोपः । इयादेशः । श्राद्गणः । भवे. वेति । वस शप् गुणावादेशौ। 'नित्यं डितः' इति सकारलोपः । रासुट । सलोपः । इयादेशः । श्राद्गणः । यलोपः । एवं मसि भवेमेति रूपम् । इति विधिलिप्रक्रिया । अथाशीलिडि विशेषमाह लिङाशिषि । लिङिति लुप्तषष्ठीकं पदम् । 'तिङ्शित्सार्वधातुकम्' इत्यतस्तिडित्यनुवर्तते, तदाह आशिषि लिङस्तिङिति । सार्वधातुक. संज्ञापवादोऽयम् । ततश्च सार्वधातुकसंज्ञाकार्य शबादि न भवति । किदाशिषि । 'लिङस्सीयुट्' इत्यतो लिङ इत्यनुवर्तते । ‘यासुट् परस्मैपदेघु-' इत्यतं यासुडिति च ! मिति । एतच्च विप्रतिषेधसूत्रे भाध्ये स्पष्टम् । आर्धधातुकसंह' इति । 'लङः शाकटायनस्यैव' इत्यत एवकारोऽनुवर्तनीयः । अन्यथा एकसंज्ञाधि कारबहिर्भूतत्वेन सार्वधातुकसंज्ञापि स्यात्ततश्च पक्षे शबादिः स्यात् । किदाशिषि । ङि वेनैव गुणवृद्धिप्रतिषेधे सिद्ध किद्वचनमिज्यादित्यादौ संप्रसारणार्थ जागर्यादित्यत्र गुणार्थ च ।