________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५
आशिषि लिङो यासुट किस्स्यात् । 'स्को:-' (स् ३८०) इति सलोपः । २२१७ क्क्डिति च । (१-१-५) गिरिकन्डिनिमित्ते इग्लक्षणे गुणवृद्धी न स्तः। तदाह आशिषि लिङ इति । ‘यासुट परस्मैपदेषु-' इति ङित्त्वस्यापवादः । यद्यपि ङित्त्वेनैव गुणनिषेधः सिध्यति, तथापि इज्यादित्यादौ 'वचिस्वपियजादीनां किति' इति संप्रसारणाद्यर्थ कित्त्वमावश्यकम् इह न्याय्यत्वादुपन्यस्तम् । अथ आशिषि लिङस्तिपि आर्धधातुकत्वात् शनभावे 'इतश्च' इतीकारलोपे यासुडागमे अतः परत्वाभावात् सार्वधातुकत्वाभावाच्च इयार्देशाभाव सुटि भूयास् स् त् इति स्थिते प्रक्रियामाह स्कोरिति सलोप इति । लिङस्सलोप इत्यस्य सार्वधातुकविषयत्वात् स्कोरिति सुटः पदान्तसंयोगादित्वाद् लोपः । ततो यासुटः सस्यापि पदान्तसंयोगादित्वादेव लोपः। न तु झल्परसंयोगादित्वेन यासुटः सस्य लोपे सुटः सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तम् । तथा सति झल्परसंयोगादिलोपस्यासिद्धत्वेन संयोगान्तलोपापत्तेः। भ्रष्ट इत्यादी सावकाशस्य झल्परसंयोगादिलोपस्य संयोगान्तलोपाबाधकत्वादिति शब्दरत्ने विस्तरः । एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् । तत्र 'सार्वधातुकार्धधातुकयोः' इति गुणे प्राप्ते । विक्ङति च । ग्कङ् एषां समाहारद्वन्द्वः कात्पूर्व गकारस्य चन निर्देशाद् गङ् च इद् यस्येति विग्रहः । द्वन्द्वान्ते श्रूयमाण इच्छन्दः प्रत्येकमन्वेति । तथा च गिति किति ङिति चेति लभ्यते । निमित्तसप्तम्येषा। 'इको गुणवृद्धी' इत्यनुवर्तते । चकार इत्यर्थे । इक इत्युच्चार्य विहिते इति लभ्यते । 'न धातुलोप आर्धधातुके' इत्यतो नेत्यनुवर्तते । तदाह गिकिङिनिमित्ते इत्यादिना । गितीत्यनुक्तौ तु 'ग्लाजिस्थश्च पस्नुः' इति ग्स्नुप्रत्यये जिष्णुरित्यत्र गुणनिषेधो न स्यात् । न च रस्नुप्रत्ययः किदेव क्रियतामिति वाच्यम् , तथा सति 'घुमास्था-' इति किति विहितस्य ईत्वस्य प्रसङ्गात् । यदि तु गिति किति बिति परतो जागर्तेर्गुणो हि लिति पर्युदस्यते, ङित्वं चेह विशेषविहितेन कित्त्वेन बाध्यते । सलोप इति । झल्परसंयोगादित्वेन यासुटः सस्य लोपः सुटस्तु पदान्तसंयोगादित्वेनेति भाव इति मनोरमायां स्थितम् , तदसम्बद्धमिति मत्वात्र निष्कर्षमाहुः-भूयास्तां भूयास्तं भूयास्तेत्यत्र झल्परसंयोगादित्वेन यासुटः सस्य लोपः । भूयादित्यत्र तु सुट इव यासुटोऽपि सस्य लोपः पदान्तसंयोगादित्वेनैव । अन्यथा झल्परसंयोगादिलोपस्यासिद्धत्वात्संयोगान्तलोप एव स्यात् । मृष्ट इत्यादौ सावकाशस्य झल्परसंयोगादिलोपस्य संयोगान्तलोपाबाधकत्वादिति । डिनिमित्त इति । किति किति परे इको गुणवृद्धी न स्त इति न व्याख्यातम् , छिनभिन्नमित्यत्र लघूपधगुणस्यानिषेधप्रसङ्गात्। नचारम्भसामर्थ्य शङ्यम् , चितं स्तुतमित्यादावव्यवहिते किति चरितार्थत्वादिति