________________
४६ ] सिद्धान्तकौमुदी।
[ भ्वादिभूयात् भूयास्ताम् भूयासुः। भूयाः भूयास्तम् भूयास्त । भूयासम् भूयास्व गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघूपधगुण. निषेधो न स्यात् , स्थानिभूतस्येको हला व्यवधानात् । नच येन नाव्यवधानन्यायः शङ्कयः, चितं स्तुतमित्यादाकव्यवहिते चरितार्थत्वात् । यदि च इको न गुणवृद्धी इत्येव व्याख्यायेत न विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक् , इह आदिवृद्धरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वाद् निषेधः स्यादित्यलम् । भूयादिति । इहार्धधातुकत्वाद् 'लिङः सलोप-' इत्यस्याप्रवृत्तेः 'स्को:-' इति सलोप इत्युक्तं न विस्मर्तव्यम् । न चैवमपि संयोगादिलोपस्यासिद्धत्वाद्धल्ड्यादिलोपः स्यादिति वाच्यम् , सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनापृक्तत्वाभावादित्यलम् । भयास्तामिति । आशिषि लिङस्तसस्तामादेशे आर्धधातुकत्वात् शबभावे यासुडा. गमे अतः परत्वाभावादियादेशाभावे सुटि झल्परसंयोगादित्वेन यासुट सकारस्य लोपो गुणनिषेधश्च । भूयासुरिति । झर्जुसि यासुडागमे गुणनिषेधे रूपम् । भया इति। आशीलिङः सिपि 'इतश्च' इतीकारलोपः, यासुटः 'स्कोः' इति सलोपः, गुणनिषेधः, रुत्वविसर्गौ। भूयास्तमिति । थसस्तमादेशे यासुटि गुणनिषेधः । एवं थस्य भावः । अन्ये तु-क्तिीति प्रत्ययग्रहणात् प्रत्ययेन संनिधापितस्याङ्गस्य विछति पर इति व्याख्याने तु छिन्नं भिन्ममित्यादि सिध्यत्येव । न चवं भवावो भवाम इत्यादावतिप्रसङ्ग इति वाच्यम् , अन्तरङ्गगुणं प्रति बहिरङ्गनिषधस्याप्रवृत्तेरित्याहुः । 'क्लिति च' इति सूत्रे चर्वेन गकारोऽपि प्रश्लिष्यत इत्याशयेन गिकिन्डिन्निमित्त इत्युक्तम् । गिति किम् , 'ग्लाजिस्थश्च गस्नुः' जिष्णुः । किति त्वस्मिन्स्थास्नुरित्यत्र 'घुमास्था-' इतीत्वं प्रसज्येत । न च सोगित्त्वे भूष्णुरित्यत्रेरिनषेधो न स्यात् 'ग्लाजिस्थश्च-' इति चकाराद् भुवश्व गस्नुर्भवतीति स्वीकारादिति वाच्यम् , 'श्रयुकः किति' इत्यत्रापि चत्वेन गकारं प्रश्लिष्य गित्किनोरिरण स्यादिति व्याख्यानात् । न चैवं चर्वस्यासिद्धतया 'श्रृयुकः-' इत्यत्र विसर्जनीयो न लभ्यत इति 'हशि च' इत्युत्वमेव स्यादिति वाच्यम् , सौत्रत्वात् । 'न मु ने' इत्यत्र नेति योगविभागेनासिद्धत्वाभावाद्वेष्टसिद्धे. । वामनस्तु'ग्लाजिस्थश्व-' इति सूत्रे स्था श्रा इति प्रश्लेषात्स्थास्नुरित्यत्र 'घुमाग्था-' इतीत्वं न भविष्यतीति गकारप्रश्लेषाभावान्न 'श्रयुकः किति' इत्यत्र चर्वस्यासिद्धत्वाभावसमर्थन क्लेश इत्याह इग्लक्षण इति । इक इत्येवं विहिते इत्यर्थः । इग्लक्षणे किम् , लैगवायनः । लिगोनडादित्वात्फक । इहादिबुद्धेरोर्गुणस्य च वस्तुगत्या इस्थानिकत्वेऽपि न निषेधः । न चेक इत्युक्तेऽपि 'किति च' इत्यारम्भसामर्थ्यादत्र निषेधो न भवेदिति शङ्कयम् , नाडायनादौ तस्य चरितार्थत्वात् । भूयादिति । इह 'स्को:-'