________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४७ भूयास्म । २२१८ लुङ् । (३-२-०११) भूतार्थवृत्तातोलुङ् स्यात् । २२१६ माङि लुङ् । (३-३-१७५) सर्वलकारापवादः । २२२० स्मोत्तरे लङ् च । (३-३-१७६) स्मोत्तरे माङि लङ् स्याल्लुङ् च । २२२१ चिल लुङि। (३-१-४३) शबाद्यपवादः । २२२२ च्लेः सिच् । (३-१-४४) इचावितौ । २२२३ तादेशेऽपि भूयास्तेति रूपम् । भूयासमिति । मिपः अमादेशे यासुटि गुणनिषेधः । भूयास्वेति । लिडो वस् ‘नित्यं ङितः' इति सकारलोपः। यासुट् । गुणनिषेधः । एवं मसि भूयास्मेति रूपम् । इत्याशीलिप्रक्रिया । लुङ् । 'धातोः' इति 'भूते' इति चाधिकृतम् । तदाह भूतार्थवृत्तेरिति । माडि लुङ् । मालि प्रयुज्यमाने धातोलुङ् स्यादित्यर्थः । नन 'लुङ्' इत्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह सर्वलकारापवाद इति । मास्त्वित्यादौ तु मा इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः। 'श्राङ्माङोश्व' इति सूत्रभाष्ये तु उितो माशब्दस्य निर्देशात् प्रमाछन्द इत्यत्र तुक् न भवतीत्युक्तम् । माशब्दस्याव्ययान्तरस्य सत्त्वे तु तदेवोदाहियेत। मास्त्वित्यत्र तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये । स्मोत्तरे लच। चकाराद् 'माडि लुङ्' इत्यनुकृष्यते । स्म इत्यव्ययम् उत्तरं यस्मादिति विग्रहः, तदाह स्मोत्तरे माङीति । अयमपि सर्वलकारापवादः । चिल लुङि। च्लि इति लुप्तप्रथमाकम् । लुङि परे धातोः चिलप्रत्ययः स्यादित्यर्थः । शबाद्यपवाद इति । आदिना श्यनादिविकरणसंग्रहः । च्ले सिन् । इचाविति । चित्स्वरश्चित्त्वस्य प्रयोजनम् । इदित्त्वस्य तु अमंस्तेत्यत्र 'अनिदितां हल उपधायाः-' इत्युपधालोपस्याप्रवृत्तिः इति लोपस्यासिद्धत्वात्तकारस्य संयोगान्तलोपः प्राप्तः पदान्तसंयोगादिलोपेनानवकाशेन बाध्यते । नन्वेमपि संयोगादिलोपस्य 'पूर्वत्रासिद्धम्' इत्यसिद्धत्वाद्धल्ड्यादिलोपः स्यात्, पदान्ते संयोगादिलोपस्य भृट् भृडित्यादौ सावकाशत्वादिति चेत् । अत्राहुः-सुड्यासुटोः सतोस्ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनापृक्तत्वाभावात् , हलन्तायाः प्रकृतेः परत्वाभावाचोक्तदोषशङ्कव नास्तीति । सर्वलकारापवाद इति । मास्त्वित्यादौ निषेधार्थकमाशब्दोऽन्य एव न तु माङित्याहुः । चिल लुङि । इकार उच्चारणार्थ इति मनोरमा । न च 'मन्त्रे घस-' इति सूत्रे लेरिति स्थाने ल इत्युच्यमाने चिलमिनस्यापि लकारस्य लुक् स्यादिति शङ्कथम् , 'गातिस्था-' इति सूत्रातिसच इत्यनुवर्त्य सिच्स्थानिनः स्थान्यहस्य लस्य लुगिति व्याख्यायामतिप्रसमाभावाद्विभाषानुवृत्तेलुको वैकल्पिकतया छन्दसि रूपान्तरस्यानापाद्यतया च सिजनुकृति विनापि नातिप्रसा इत्याहुः । शबाद्यपवाद इति । आदिशब्दात्तत्तद्गणप्रयुक्तानां श्यन्नादिनां ग्रहणम् । इचाविताविति । तोदित्त्वे प्रयोजनममंस्तेत्यत्र 'अनिदिताम्-' इत्युपधालोपा