________________
४८ ]
सिद्धान्तकौमुदी ।
[ स्वादि
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । ( २-१-७७ ) एम्बः सिचो लुक्स्यात् । गापाविहेणादेशपिवती गृह्येते । २२२४ भूसुवो स्तङि । (७-३-८८ ) भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् । २९२५ अस्तिसिचोपृक्ते । ( ७-३-६६ ) सिच् च श्रम् चेति समाहार इन्द्रः । सिच्छन्दस्थ
प्रयोजनम् । गातिस्थाघु । गाति स्था घुपा भू एषां द्वन्द्वत् पचमीबहुवचनम् । परस्येति शेषः । सिच इति षष्ठी । गातीति रितपा निर्देशाद गाधातोर्ग्रहणम् । घु इत्यनेन 'दाधाध्वदाप्' इति घुसंज्ञकयोः दाधातोर्घाधातोश्च ग्रहणम् । 'रायत्तत्रियार्षबितो यूनि लुगणिञोः' इत्यस्माद्वयवहितादपि लुगित्यनुवर्तते । 'जुहोत्यादिभ्यः श्लुः' इत्यव्यवहितमपि श्लुग्रहणं नानुवर्तते, व्याख्यानात्, तवाह एभ्यः सिच इत्यादिना । गापाविहेति । इह 'गातिस्था-' इति सूत्रे वातीत्यनेन पाप होन च 'इणो गा लुङि' इति लुग्विकरणस्येणो गादेशः, शब्दिकरणः पिबादेशयोग्यः पाधातुश्च गृह्येते इत्यर्थः । गापोहणे इणपिबत्योर्ग्रहणमिति भाव्यादिति भावः । तथा च लुङस्तिबादेशे 'इतश्च' इति इकारलोपे शबपवादे चिलप्रत्यये तस्य सिचि तस्य लुकि डागमे अभूत् इति स्थिते वित्त्वाद् ङित्त्वाभावे 'सर्वधातुकार्धधातुकयोः ' इति गुणे प्राप्ते भूसुवोस्तिङि । 'मिदंर्गुण:' इत्यतो गुण इते 'राम्भ्यस्तस्याचि पिति-' इत्यतो नेति सार्वधातुक इति चानुवतते । तदाह एतये रिति । भू सृ इत्यनयोरित्यर्थः यः । इह ' षूङ् प्राणिगर्भविचने' इति लुग्विकरण व ग्रहणम् । न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत् इत्यत्र तकारस्येडागममाशङ्कितुमाह ग्रस्तिसिवोऽपृक्ते । श्रस्तिश्व सिच्चेति समाहारद्वन्द्वात् पञ्चमी । 'ध्रुव ईटू' इत्यत ईडित्यनुवर्तते । तस्मादित्युत्तरस्य' इति परिभाषया 'अस्तिसिचः -' इति पञ्चमी श्रपृक्तस्येति षष्ठीं कल्पयति । ततश्च श्रस्तेः सिचश्च परस्यापृक्लस्य ईडागमः स्यादिति प्राचीना व्याचचते । तथा सति लुङि भावः । गातिस्था । इह व्यवहितोऽपि लुगनुवर्तते न तु श्लुः, व्याख्यानादित्याशयेनाह लुगिति । गापाविति । गातीति शितपा विकरणशून्यस्य निर्देशाल्लुग्विकरण इणादेशो गृह्यते, 'लुग्विकरणा लुग्विकरणयोर लुग्विकरणस्य ग्रहण 1' इति परिभाषया पिबतिर्गृह्यते न तु पातिरित्यर्थः । भूसुवोः । ' षूङ् प्राणिगर्भविमोचन' । इत्यादादिकस्येह प्रहणम्, सुवतिसूयत्योस्तु न ग्रहणम्, तिङो विकरणेन व्यवधानात् । श्रस्तिसिचो ऽपृक्ते । अत्र प्राश्चः - अस्तिश्च सिच्चेति समाहारद्वन्द्वे अस्तिसिच्, तस्मादिति विग्रहं मत्वा अस्तेः सिचश्च परस्येति व्याचख्युः । तच्चिन्त्यम्, तत्र समासान्तस्यानित्यत्वाश्रयणे 'द्वन्द्वाच्चुदषहान्ताद्-' इति प्राप्तस्य टचः परिहारेऽपि 'समुद्राभ्राह:' इति निर्देशाद्