________________
प्रकरणम् ४३ ] बालमनोरमा सत्वबोधिनीसहिता। [४६ सौत्रं भस्वम् । अस्तीत्यम्यवेन कर्मधारयः । ततः पवम्याः सौत्रो लुकू । विद्यमानास्सिचोऽस्तेश्च परस्साहन ईडागमः खात् । इति ईट् नेह, सिचो लुका अस्ते भावे अभूदिति न स्यात् । भूभावस्य स्थानिवत्त्वेन अस्तितया तत्राप्रकस्य हल ईडागमस्य दुरित्वात् । तथा अगात् अस्थात् अपादित्यादावपि 'गातिस्था-' इति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादोडागमः स्यात् । अतः प्रकारान्तरण व्याचष्टे सिश्च अस् चेत्यादिना । ननु सिचसशब्दे सिचशब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वात् 'चोः कुः' इति कुरवप्रसा इत्यत माह सिचशब्दस्य सोत्रं भत्व. मिति । तथा च भत्वेन पदत्वस्य बाधा कुत्वमिति भावः । ननु सिचस्शब्दे अस् इत्यनेनेवास्तेाभाद् अस्तिग्रहणं किमर्थमित्यत माह अस्तीत्यव्ययेन कर्मधारय इति । अस्तीति विभक्तिप्रतिरूपकमव्ययं लुप्तसुब्विभक्तिकं विद्यमानार्थकम् । तेन सिचस्शन्दस्य कर्मधारय इत्यर्थः । तथा च अस्तिसिचस् इत्येकं पदमिति स्थितम् । ततः पञ्चम्याः सीमो लुगिति । 'सुपो मुलुक्-' इत्यनेनेति शेषः। तथा च अस्तिसिच इति पदाद् लब्धार्थमाह विद्यमानारिसचोऽस्तेश्च परस्येति । 'अल्पान्तरम्' इत्येतदनित्यमित्याश्रित्य सिच्छन्दस्य परत्वसमर्थनेऽपि 'अस्तेभूः' इति भूमावस्य स्थानिवत्वेनास्तितया तत्राकस्य हल ईडागमस्य दुरित्वात् , तथा गातिस्थाधुपाभूभ्यः सिचो लुक्यपि स्थानिवद्भावेन सिचः परत्वानपायादगादस्थादभूदित्यादावतिप्रसशाच्च । तदेतद् ध्वनयन्व्याचष्टे सिख अस् चेति । सौत्रं भत्वमिति । तेनान कुत्वजश्त्वे न भवत इति भावः । विद्यमानादिति । सिचोऽस्तेश्च विद्यमानविशेषणेन लुप्तात्सिचः कृतभूभावादस्सेश्च नेति भावः । भाष्यकारास्त्वाहुः-'अस्तिसिचोऽपृक्ते' इति द्विसकारकोऽयं निर्देश इति । अत्र माधवः-अस् स इति समुदायस्याधातुतया 'इविश्तपौ धातुनिर्देश' इति रितप् प्रत्ययो न स्यादिति । अत्र वदन्तिद्विसकारकनिर्देशे रितप् न स्यादिति यदुक्तं तद्रमसोलिमात्रम् । इत्थं हि भाष्याशयःसिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु रितपः प्राक्, अत एव 'सिचोऽपृक्ते' इति द्विसकारकोऽयं निर्देश इत्युक्तं भाष्ये । अन्यमा अस्तीति निर्देशो द्विसकारक इत्येव ब्रूयात् , एवं च सान्तादस्तेः सान्तात्सिच इति चार्षो निर्वाध एव । द्वितीयश्च सकारो लुप्यते 'संयोगान्तस्य पदान्तस्य' इति व्याख्यानात् , व्यपदेशिवद्भावेन पदान्तत्वाद् द्वितीयसकारस्य । न च संयोगान्तलोपस्यासिद्धत्वाद् 'अतो रोः-' इत्युत्वं दुर्लभमिति वाच्यम् , 'संयोगान्तलोपो रोरुत्वे' इति वार्तिकेनासिद्धत्वनिषेधात् , संयोगान्तं यत्पदमिति व्याख्यान तु नेह संयोगान्तलोपः, किंतु सकारद्वयस्यापि रुत्वे कृते 'अतो रोः-' इत्यनेनैक एवोकारो भविष्यति, विधेयविशेणस्यैकत्वस्य पधेकत्ववद्विवक्षितत्वात् ।