________________
५०
सिद्धान्तकौमुदी।
भ्वादिः
लुप्तस्वात् । प्रभूत् । 'हलः किम्-ऐधिषि । 'अपकस्य' इति किम्-ऐधिष्ट । अभूताम् । २२२६ सिजभ्यस्तविदिभ्यश्च । (३-४-१०६ ) सिचोऽभ्यस्ताद्विदेश्च परस्य रिसंवन्धिनो फर्जुस् स्यात् । इति प्राप्ते २२२७ प्रातः । हल इति । 'उतो वृद्धिलुकि हलि' इत्यतोऽनुवृत्तस्य हलीत्यस्य षष्टधा विपरिणाम इति भावः । इतीट नेहेति। अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह सिचो लुका लुप्तत्वादिति । विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्य नेति भावः । एवं च अगादित्यादावपि लुप्तात्सिचः परस्य, अस्ते डि कृतभूभावात्परस्य च नेत्युक्त प्रायम् । ऐधिषीति । एधधातो हि उत्तमपुरुषैकवचनम् , इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्त्वा भावाद् ईडागमो नेति भावः । ऐधिष्टेति। एधधातोर्तुङि प्रथमपुरुषकवचम् । अत्र त इत्यस्य सिचः परत्वऽपि एकाल्प्रत्ययत्वाभावेनापृक्तत्वाभावाद् ईडागमो नेति भावः । अभूतामिति । लुङन्तसि तस्य तामादेशः, च्लिः, सिच् । अट् । गुणनिषेधः । सिजभ्यस्तविदि ! "झर्जुस्' इति सूत्रमनुवर्तते । 'नित्यं ठितः' इत्यतो डित इति च तदाह लिचोभ्यस्तादित्यादिना । इति प्राप्त इति । लिङो झर्जुसीति शेषः। अतः। 'मजा' इति सूत्रमनुवर्तते। 'प्रातः सिज्लुगन्तादिति वक्तव्यम्' इति वाकिं भाष्ये पठितम् । ततश्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झर्जुसिति लभ्यते 'सिजभ्यस्त-' इति न च स्थानिभेदेन उकारद्वये सत्यपि न क्षतिः, सवर्णदीर्घानन्तरमाद्गुणे सति समीहितरूपसिद्धेरिति वाच्यम् , एकपदाश्रयत्वेनान्तरमत्वाद् गुणे पश्चादवादेश प्रवृत्त्या 'अस्तिसिचोऽपृक्त' इति रूपासिद्धः, तस्मादुक्तरीत्या एक एवोकाः इति स्वीकर्तव्यम् । अतएव विधेयगतैकत्वस्य विवक्षितत्वाद् ‘एकः पूर्वपरयोः' इल त्रैकाहणं भाष्यादौ प्रत्याख्यातम् । नन्वति परे यो रुः स त्वतः परो न भवति, शतः परस्तु अतिपूर्वो न भवतीति रुद्व यस्थाने कथमुकारः स्यात् । मैवम् , 'रोः' इति जातिपरनिर्देशनातः परत्वस्य पूर्वत्वस्य च सम्भवात् । न चैवमपि परत्वाद 'हशि च' इति प्रथमस्यैव रोरुः स्यादिति वाच्यम् , रुत्वस्यासिद्धतया हश्परत्वाभावात् । न चाश्रयासिद्धत्वमिति वाच्यम् , स्थान्यंशे तथात्वेऽपि निमित्तभूतहशंश तदसंभवात् । यद्यपि सत्व जातेरेकत्वादुभयोरपि एक एव भवतीति व्याख्यायां नायं क्लेशस्तथापि रुत्वविधौ पदस्येत्यनुवर्तमानादेकपदान्तत्वं न संभवति, द्वितीयसकारस्य पृथक्पदत्वादित्याहुः । अपृक्तहल इति । अपृक्तसार्वधातुकस्येति प्राचोक्तं त्वयुक्तम् । ऐधिषि इत्यादावतिव्यागे, सार्वधातुकप्रहणव्यावालाभाच्च । प्रातः। सिज्ग्रहणमनुवर्तते 'झर्जुस्' इति च । सिच आकाराच्च परस्य झर्जुस् । तत्र प्रत्ययलक्षणेन सिचः परत्वमाकारात्तु श्रुत्या । एवं स्थिते फलितमाह