________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१ (३-४-११०) सिज्लुक्यादन्तादेव झर्जुस् स्यात् । प्रभूवन् । प्रभूः अभूतम् अभूत । अभूवम् अभूव अभूम । २२२८ न माङ्योगे । (६-४-७४) अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा । २२२६ लिनिमिते लुङ क्रियातिपत्तौ। (३-३-१३६ ) हेतुहेतुमद्भावादि लिनिमित्तं तत्र भविष्यत्यर्थे लुङ् स्यास्क्रियाया अनिष्पत्तो गम्यमानायाम् । प्रभविष्यत् पूर्वसूत्रेणेव सिद्ध नियमार्थमिदम्। तदाह सिज्लुक्यादन्तादेवेति।अभूवन्निति। मिः, चिलः, सिच , लुक् , अट् , झोऽन्तः 'इतश्च' इति इकारलोपः । तकारस्य संयोगान्तलोपः। 'भुवो वुग्लुलिटोः' इति वुक् । सिज्लुकि प्रातः परस्येवेति नियमात् 'सिजभ्यस्त-' इति न जुसिति भावः । अभूरिति । सिप् , च्लिः, सिच् , लुक् , अट्, इकारलोपो रुत्वविसर्गौ । अभूतमिति । थसस्तम् च्लिः, सिच् , लुक् , अट् , गुणनिषेधः । एवं थस्य तादेशे अभूनेति रूपम् । अभूवमिति । मिप् , अम् , च्लिः, सिच् , लुक्, अट, वुक् । अभूवेति । वस् , च्लिः, सिच् , लुक् , अट्, 'नित्यं डितः' इति सकारलोपो गुणनिषेधः । एवं मसि अभूमति रूपम् । अथ माङि लुङि विशेषमाह न माङयोगे । शेषपूरणेन सूत्रं व्याचष्टे अडाटौ न स्त इति । 'लुङ्लङ्लुङ्वडुदात्तः' इत्यतः 'पाडजादीनाम्' इत्यतश्च तदनुवृत्तेरिति भावः । मा भवान् भूदिति । मा भूदित्यत्र अडागमे सति असति च विशेषाभावाद् भवत्पदस्य मध्ये प्रयोगः। अथ 'स्मोत्तरे लङ् च' इत्यस्य उदाहरति मा स्म भवद भवेति । एवं बहुवचने मा स्म भवन् मा स्म भूवन्निति चोदाहरणं बोध्यम् । इति लुप्रक्रिया। लिनिमित्ते । हेतुहेतुमद्भावादीति । 'हेतुहेतुमतोर्लिङ', 'इच्छार्थेषु लिङ्लोटौ, इत्यादि लिनिमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति । भविष्यत्यर्थ इति । 'भविष्यति मर्यादावचने' इत्यतः तदनुवृत्तेरिति भावः । क्रियातिपत्तिपदं व्याचष्टे क्रियाया अनिष्पत्ताविति । सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमभविष्यत् इत्युसिज्लुकीति । 'गातिस्था-' इति सूत्रेणेत्यर्थः । 'सिज्भ्यस्त-' इति पूर्वसूत्रेणैवादन्तादपि झेः जुसि सिद्ध नियमार्थोऽयमित्याह आदन्तादेवेति । हेतुहेतुमद्भावादीति । अत्र केचिद् श्रादिशब्देनाशंसावचनं गृह्यत इति व्याख्याय आशंसावचनं लिो यनिमित्तं तत्रापि कियातिपत्तौ भविष्यति लुङ्, गुरुश्चेदायास्यत् श्राशंसे अहमध्येष्ये इत्युदाहरन्ति । अन्ये तु-'भविष्यति मर्यादा-' इत्यादिना भविष्यतीत्युपक्रम्य यो यो लिङ् विहितस्तनिमित्त एव क्रियातिपत्तौ लुङ् भवति नान्यत्रेत्याहुः । लिनिमित्समिति । 'हेतुहेतुमतोर्लिङ', 'इच्छार्थेषु लिङ्लोटौ' इत्यादिलकाराथप्रक्रियायां स्फुटीभविष्यति । अनिष्पत्ताविति । सुवृष्टिश्चेदभवि