________________
५२ ]
सिद्धान्तकौमुदी ।
[ भ्वादि •
.
,
2
.
"
9
>
अभविष्यताम् अभविष्यन् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविष्याव अभविष्याम । २२३० ते प्राग्धातोः । ( १ - ४ -८० ) ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः । २२३१ श्रानि लोट् । ( ८-४-१६ ) उपसर्गस्थानिमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य यः स्यात् । प्रभवाणि । 'दुरः षत्वणत्वयोरुपसर्गस्वप्रतिषेधो वक्तव्यः' । दुःस्थितिः । दुर्भवानि । 'धन्तःदाहरणं बोध्यम् । अभविष्यदिति । लुङ्, तिप्, 'इतश्च' इतीकारलोपः । ' स्यतासी लृलुटोः' इति शबपवादः स्यप्रत्ययः । अद् वलादिलक्षण इट् गुणावादेशौ । त्वम् । अभविष्यतामिति । तसस्तामादेशः । स्यः, श्रट् इद् गुणावादेशौ, त्वम् । अभविष्यन्निति । भिः स्यः, श्रद् इट् गुणावादशौ । 'भोऽन्तः ' इति फेरन्तादेशः 'इतश्च' इतीकारलोपः । तकारस्य संयोगान्तलोपः । षत्वम् । अभविष्य इति । सिप्, स्यः, ऋट्, इद् गुणः, श्रवादेशः, 'इतश्च' इतीकारलोपः, षत्वम्, रुत्वविसर्गौ । अभविष्यतमिति । यसः तमादेशः स्यः, अट्, इट् गुणावौ षत्वम् । एवं थस्य तादेशादि पूर्ववत् । श्रभविष्यमिति । मिपः अम्, स्यः, अट् इट् गुणावौ, पूर्वरूपम् षत्वम् । अभविष्यावेति । वस्, स्यः, श्रट्, 'नित्यं ङितः' इति सकारलोपः । श्रतो दीर्घः । षत्वम् । एवं मसि अभविष्यामेति रूपम् । इति लृप्रक्रिया । अथ प्रसङ्गादाह ते प्राग्धातोः। ते इत्यस्य विवरणम् गत्युपसर्गसंज्ञा इति । 'उपसर्गाः कियायोगे' 'गतिश्च' इति प्रकृतत्वादिति भावः । प्रागेवेति । न परतो नापि व्यवहिता इत्यर्थः । इह धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गाः स्युरिति संज्ञा नियमपक्षोऽपि भाष्ये स्थितः । अनि लोट् । लोडिति श्रनीति च लुप्तषष्ठीकं पदम् । 'रषाभ्यां नो णः' इत्यनुवर्तते । ' उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति न । तदाह उपसर्गस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । असमानपदत्वार्थ आरम्भः । 'अट्कुप्वाङ्नुम्व्यवायेऽपि' इति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् । दुरः पत्वेति । षत्वणत्वयोः कर्तव्ययोः दुर उपसर्गत्वप्रतिषेध इत्यर्थः । दुःस्थितिरिति । ष्यत्तदा सुभिक्षमभविष्यदिति तत्रैवोदाहरिष्यति । प्रागेवेति । न परतः, नापि व्यवहिता इत्यर्थः । अतएव 'छन्दसि परेऽपि ' ' व्यवहिताश्च' इति सूत्रितम् । अनि लोट् । नि लोडित्येव वक्तव्ये श्रानिग्रहणमागमशास्त्रस्यानित्यता ज्ञापयितुम् । तेन 'सागरं तर्तुकामस्य जप्त्वा स्तोत्रम्' इत्यादि सिध्यति । लोड्ग्रहणं स्पष्ट प्रतिपत्त्यर्थम् । न च प्रकृष्टा वपा येषां तानि प्रवपानि मांसानीत्यत्राप्यनेन नित्यं णत्वं स्यादिति वाच्यम्, उपसर्गग्रहणादर्थवद्महणाच्चास्याप्रवृत्तेः । 'प्रातिपदिकान्त--' इति वैकल्पिकत्वं
1