________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३ शब्दस्यातिविधि णवेधूपसर्गस्वं वाच्यम्' । अन्तर्धा । अन्तर्षिः । अन्तर्भवाणि । २२३२ शेषे लिभाषाऽकखादावषान्त उपदेशे । (८-४-१८) उपदेशे कादिखादिषान्त बर्जे गदनदादेरन्यस्मिन्धातौ पर उपसर्गस्थानिमित्तात्परस्य नेर्नस्थ णत्वं वा स्यात् । प्रणिभवति, प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता निस्या। तदुक्रम्
'संहितैकपदे निस्या नित्या धातूपसर्गयोः ।
निस्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥' इति । सत्ताद्य निर्देशश्वोपलणम् । यागास्वार्गो भवतीत्यादावुत्पद्यत इत्या. अत्र 'उपसर्गात्सुनोति-' इति षत्वं न भवति । दुर्भवानीति । अत्र 'पानि लोट्' इति रणत्वं न भवति । अन्तःशब्दस्येति । अविधौ किविधौ णत्वे च कर्तव्ये अन्तर् इत्यस्य उपसर्ग मित्यर्थः। प्रादित्वाभावादप्राप्ते वचनम् । अन्तर्धेति । 'स्त्रियाम्' इत्यधिकारे धाध तोः 'आतश्चोपसर्गे' इत्यङ् । टाप् । अन्तर्धिरिति । 'उपसर्गे छोः किः' । अन्तर्भवाणीति । 'पानि लोट्' इति णत्वम् । शेषे विभाषा । अकखादाविति छेदः । 'नर्गदनद-' इति पूर्वसूत्रोक्तधातुभ्योऽन्यः शेषः। तदाह गदनदादेरन्यस्मिन्निति । ननु णत्वप्रकरणं संहिताधिकारस्थम् । ततश्चाविवक्षितायां संहिताया. उपसर्गात्परत्वाभावाद् णत्वाभावः । विवक्षितायां तु णत्वमिति विकल्पसिद्धः कि मेह विभाषाग्रहणेनेत्यत आह इहोपसर्गाणामिति । उक्तमिति। हरिणति शेषः । अत्र एकपद इत्यनेन अखण्डं पदं विवक्षितम् , 'नित्या समासे' इति लिझात् । अखए इत्वं च पदभिन्नोत्तरखण्डकत्वम् । अन्यथा राजीयतीत्यादौ 'प्रतो त्विष्यत एव । दुरः षत्वेति । 'दुरः परस्य णत्वं नेति केचित्' इति प्राचोक्तं त्वयुक्तम् । एवं हि सिद्धान्ते णत्वं स्यात् तच्चाकरविरुद्धमिति भावः । अन्तधेति । 'आतश्चोपसर्गे' : त्यङ् टाप । अन्तर्धिरिति । 'उपसमें घोः किः' । श्रच्छब्दस्याङ् विधावुपसर्गत्वमु संख्यायते, तत्तु प्रकृतानुपयोगादुपेक्षितम् । भिदादिपाठेन 'प्रज्ञाश्रद्धा-' इति निपातनेन । गतार्थत्वाच्च । शेषे विभाषा । 'नेर्गदनद-' इति सूत्रोक्कापेक्षया रोष इत्याह गद नदादेरन्यस्मिन्निति । उपदेशे किम् , प्रनिचकार प्रनिचखादेत्यत्रापि निषेधे न्यथा स्यात् । अषान्तेति किम् , प्रनिपिनष्टि । उपदेशग्रहणात् प्रनिपक्ष्यति । 'च क्षतः ख्याञ्' प्रनिचक्शे इत्यत्रापि निषेधः । शेषग्रहणं स्पष्टार्थम् । गत्वशास्त्रे सहि तायामित्यधिकारात् संहितायामविवक्षितायां णत्वाभावः, संहितायां तु गत्वमिति विकल सिद्धेः किमनेन विभाषाग्रहणेनेत्याशङ्का न कार्येत्याह इहोपसर्गाणामित्यादि । कपद इत्यनेनैव सिद्धे समासग्रहणं गोबलीवर्दन्यायेनेति बोध्यम् ।