________________
५४ ]
सिद्धान्तकौमुदी। [भ्वादिधर्थात् । उपसर्गास्त्वर्थविशेषस्य घोतकाः । प्रभवति पराभवति संभवति अनुभवति अभिभवति उद्भवति परिभवतीत्यादौ विलक्षणार्थावगतेः । उन च
"उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ॥' इति । एध २ वृद्धौ । कत्थन्ताः षट्त्रिंशदनुदात्तेतः । २२३३ टित आत्मने. गुणे' इति शपा पररूपम् एकादेशः पक्षे न स्यात् । अर्थनिर्देशश्चेति । धातुपाठे 'भू सत्तायाम्' इत्याद्यर्थनिर्देश इत्यर्थः । उपलक्षणमिति । प्रदर्शनमात्रमित्यर्थः । नन्वर्थान्तरपरिसंख्या कुतो न स्यादित्यत आह यागादिति । न च यागात् स्वर्गो भवतीत्यादौ उत्पत्त्यादौ लक्षणा कुतो न स्यादिति वाच्यम् , प्रयोग गर्यसत्त्वात् । पाणिनिर्हि धातुपाठे धातून् कांश्चिदर्थसहितान् कोश्विदर्थरहितान् पठतीति 'चुटू' इति सूत्रभाष्ये स्थितम् । न चातिप्रसङ्गः शङ्कयः, अनेकार्था अपि धातवो भवन्ती ते भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतः । सर्वेषु धातुवर्थनिर्देशस्स्वाधुनिकः । एवं च 'सेधतेर्गतौ' इति सूत्रे गतावित्युपादानात् 'षिध गत्याम्' इत्यर्थनिर्देशः अपाणिनीय एवेति दिक् । ननु भूधातोः केवलस्योत्पत्त्याद्यर्थकत्वे उद्भवतीत्यादौ उपसर्गा व्या इत्यत आह उपसर्गास्त्विति । उपसर्ग विनापि भूधातोरुत्पत्त्याद्यर्थप्रतीतेः । उद्भवतीत्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव, न तु वाचका इति भावः । द्योतकत्वं वा तेषां किमर्थ स्वीकार्यमित्यत आह प्रभवतीत्यादि । प्रभवः प्रकाश उत्पत्तिः शक्तिर्वा । पराभवः पराजयः । सम्भवः सम्भावना । अनुभव उपभोगः । अभिभवो हिंसा । उद्भव उत्पत्तिः । परिभवः तिरस्कारः। उक्तं चेति । हरिणति शेषः। प्रहारः कशाद्याघातः । आहारो भक्षणम्। संहारो वधः । विहारः क्रीडा। परिहारः परित्यागः । इति भूधातुप्रक्रिया । एघ वृद्धाविति । जायते, अस्ति, विपरिणमते, वर्धते, अपक्षीयते, विनश्यतीति षड् भावविकाराः । तत्र चतुर्थावस्था वृद्धिः उपचयः । कत्थवाक्ये त्विति । सा संहिता विवक्षाधीना न त्वत्र नित्येत्यर्थः । उपलक्षणमिति । एतच्च सत्ताद्यर्थनिर्देशं कृतवतो भीमसेनस्यापि संमतमित्यत्र 'कुर्द खुर्द गुर्द गुद क्रीडायामेव' इत्येवकारो ज्ञापकः । 'सेधतेर्गतौ' इति सूत्रे गतावित्येतदपि 'षिध गत्याम्' इत्याद्यर्थनिर्देशस्योपलक्षणत्व एव घटते नान्यथेति दिक् । उत्पद्यत इत्याद्यर्थाः दिति । एवं च उपसर्ग विनाप्युत्पत्त्यर्थप्रतीतेरुद्भवतीत्यादौ प्रयुज्यमानोऽप्युपसर्गो द्योतक एव न तु वाचक इति भावः । उपसर्गेण धात्वर्थ इति । अत एवाऽमरेणाप्युक्तम्- 'स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः। अनुलापो मुहुर्भाषा विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ।