________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५५
पदानां टेरे । ( ३-४-७६ ) टिवो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते । २२३४ सार्वधातुकमपित् । ( १-२-४ ) अपित्सार्वधातुकं द्वित्स्यात् । २२३५ श्रतो ङितः । ( ७- २ - ८१ ) अतः परस्य ङितामाकारस्य इय् स्यात् । एवेते एधन्ते । २२३६ थासः से । ( ३-४-८० ) टितो लस्य थासः से स्यात् । एधसे एधेथे एधध्वे । 'अतो गुणे' ( सू १६१ ) । एधे एधावहे न्ता इति । 'कत्थ श्लाघायाम्' इत्यन्ता इत्यथः । अनुदात्तेत इति । ततश्च एतेभ्य आत्मनेपदमेवेति भावः । तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपद प्रथमपुरुषैकवचने तादेशे शपि एध त इति स्थिते टित आत्म । 'टे: ' 'ए' इति च्छेदः । लस्येत्यधिकृतम् । तदाह टितो लस्येति । श्रादेशानामिति शेषः । श्रत्रात्मनेपदशब्देन तदेव गृह्यते नत्वानोऽपि । तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम् । एधत इति । अत्र तकारादकारस्य व्यपदेशिद्भावनान्त्यादित्वेन टित्वादेत्वम् । अथ लटः प्रथमपुरुषद्विवचने तामित्यादेशे टित आत्मनेपदानाम् -' इति श्रम एत्वे शपि एध आ इति स्थिते खित्कार्यं वक्ष्यन् ङित्त्वमाह सार्वधातुकमपित् । 'गाङ्कुटादिभ्यः -' इत्यतो विदित्यनुवर्तते । अङितो वित्त्वं वास्तवं न संभवतीति विद्वदिति लभ्यते । तदाह ङिद्वदिति । आतो ङितः । ङित इत्यवयवषष्ठी । 'तो येयः' इत्यस्माद् श्रत इति पञ्चम्यन्तम्, इय इति प्रथमान्तं चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह अतः परस्येति । वितामित्यनन्तरं श्रवयवस्येति शेषः । एधेते इति । श्रते इति स्थिते, आकारस्य इय्, आद् गुणः, 'लोपो व्योर्वलि' इति यकारलोप इति भावः । एधन्त इति । लटः प्रथमपुरुषबहुवचने झादेशे परे शपि झकारस्य अन्तादेशे पररूपे टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेशे कृते टित श्रात्मनेपदानामित्येत्वे प्राप्ते । थासः से । 'से' इति लुप्तप्रथमाक्रम् । एधस इति । थाखि शपि यासः सेभावः । एधेथे इति । लटो मध्यमपुरुषद्विवचने श्राथामादेशे शपि श्रम एत्वे व्याकारस्य इयादेशे गुणे यलोप इति भावः । एधध्व इति । लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् । लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति तो गुण इति । 'श्रतो सुप्रलापः सुवचनमपलापस्तु निह्नवः' इति । टित आत्मने । ननु शानचोऽपि लस्थानिकात्मनेपदत्वात्पचमानो यजमान इत्यत्र टेरेत्वेन भवितव्यमिति चेत् । अत्राहुःप्रकृतेस्तिबादिभिरात्मनेपदानां विशेषणान्न दोषः । एवं च 'टितस्तङां टेरे' इत्येव वक्तुमुचितमिति । थासः से । एकारोवारणं ज्ञापनार्थमिति 'लिटस्तमयोः -' इत्यत्र स्फुटीभविष्यति । श्रतो गुण इति । इट एत्वे कृते श्राद्गुणं बाधित्वा वृद्धौ