________________
५६ ] सिद्धान्तकौमुदी।
[ भ्वादि. एधामहे । २२३७ हजादेव गुरुमतोऽनृच्छः । (३-१-३६) इजादियों धातुर्गुरुमानृच्छत्यन्यखत भाम्स्यालिटि । 'मामो मकारस्य नेस्वम्'। प्रास्कासोराम्विधानाज्ञापकात् । २२३८ प्रामः । (२-४-८१) भामः परस्य बेलुक्स्यात् । २२३६ कृञ्चानुप्रयुज्यते लिटि । (३-१-४०)मामन्ताहिटगुणे' इति पररूपे वृद्धयपवादे कृते सति एध इति रूपमित्यर्थः । एधावह इति । लट उत्तमपुरुषद्विवचने वहि इत्यादेशे टेरेत्वे शपि अतो दीर्घः । एधामह इति । लट उत्तमपुरुषबहुवचने महि इत्यादेशे टेरेत्वे शपि अतो दीर्घः । महिहिति लकारस्तङ्. प्रत्याहारार्थः । इति लट्प्रक्रिया । इजादेश्च । नमः ऋच्छ इत्यनेन समासे अनृच्छ इत्यस्मात् पञ्चमी । 'धातोरेकाचः-' इत्यतो धातोरित्यनुवर्तते । 'कास्प्रत्ययात्-' इत्यत
आमिति लिटीति चानुवर्तते । तदाह इजादिरित्यादिना । प्रास्कासोरिति । 'कास्प्रत्ययादाममन्त्रे लिटि' इति 'दयायासश्च' इति च, कास्धातोः, आस्धातोश्च लिटि श्राम् विहितः । तत्र मकारस्य इत्संज्ञकत्वे 'मिदचोऽन्त्यात् परः' इति भाकारादाकारान्तरं स्यात् । ततव सर्वणदीर्घे कृते कास् आस् इत्येव भवतीति प्राविधिरनर्थकः स्यात् । अत आमो मकारस्य नेत्संज्ञेति विज्ञायत इत्यर्थः । तथा च एथ् पाम् ल इति स्थिते आमः । 'मन्त्रे घसहर-' इत्यतो लेरिति, एयचत्रिवार्षमितः-' इत्यतो लुगिति चानुवर्तते, तदाह प्रामः परस्य लेरिति । अत्रेदमवधेयम् । 'कृन्मेजन्तः' इत्यत्र कृद्यो मान्तस्तदन्तमव्ययमिति व्याख्याने एधामित्यादि नाव्ययम् , लिट एव कृत्वात् तस्य च मान्तत्वाभावात् । तथा च प्रत्ययलवणेन कृदन्तत्वात् प्रातिपदिकत्वे स्वाद्युत्पत्ती 'श्रामः' इति लुक् । लेरिति तु नानुवर्तते। मान्तं कृदन्तमव्ययमिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वाद् एधामिति मान्तमव्ययम् । ततः सुबुत्पत्ती 'अव्ययादाप्सुपः' इति लुक् । 'प्रामः' इत्यनेन तु परिशेषालेरेव लुक्सिद्धेलेरिति नानुवर्तनीयम् । प्रामः परस्य लेरिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवं च एधामित्यव्ययं न वेति पक्षद्वयम् , उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम् । प्राप्तायामनेन पररूपमित्यर्थः । इजादेश्च । 'धातोरेकाचः' इत्यतो धातुग्रहणं 'कास्प्रत्ययात्-' इत्यत आम् लिटीति चानुवर्तत इत्याह इजादियों धातुरित त्यादि । गुरुमान् किम् , इयेष। ऋच्छेस्त्वानर्छ । आमः। 'लक्षणप्रतिपदोक्तपरिभाषया, 'प्रत्ययग्रहण-' परिभाषया च नेह-श्राम, आमतुः परस्य लेलगिति। 'मन्त्रे घस-' इति सूत्राल्लेरित्यनुवर्त्य ‘ले क्' इति काशिकादौ व्याख्यातं तदत्रो. पेक्षितं व्यावालाभात् । तिङाद्यपवादत्वाल्लावस्थायामेवायं लुक् । तेन आमन्तस्यातिन्तत्वाटेवदत्तादिपदास्परत्वेऽपि 'तिङ्ङतिङः' इति न निघातः । आमन्तात्परस्य