________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७ पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । 'माम्प्रत्ययवस्कृतोऽनुप्रयोगस्य' (सू २२४०) इति सूत्रे कृम्ग्रहणसामादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन 'कृम्वस्तियोगे-' (सू २११७ ) इत्यतः 'कृमो द्वितीय-' (स् २१२६) इति प्रकारेण प्रत्याहारा. श्रयणास्कृभ्वस्तिलाभः । तेषां क्रियासामान्य वाचिस्वादाम्प्रकृतीनां विशेषवाचिस्वा. तदर्थयोरभेदेनान्वयः । सम्पदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थस्वास प्रयुज्यते। कृञ्चानु । 'कास्प्रत्ययादाम्-' इत्यत आमित्यनुवृत्तं पञ्चम्या विपरिणम्यते । प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । लिटि परे यः कृञ् सः अनुप्रयुज्यत इत्यन्वयः । फलितमाह आमन्तालिट्परा इति । लिशिरस्का इत्यर्थः । कृभ्व. स्तय इति । कृत्रित्यनेन कृभ्वस्तीनो ग्रहणमिति भावः । अनुपयुज्यन्त इति । प्रशब्दादनुशब्दाचाव्यवहिताः पश्चात्प्रयुज्यन्त इत्यथः । विपर्यासनिवृत्त्यर्थं व्यवहित निवृत्त्यर्थ चेति वार्तिकाद् भाष्याच । एवं च तं पातयां प्रथममास पपात पश्चात्' 'प्रभ्रंशयां यो नहुषं चकार' इत्यादिप्रयोगाः प्रामादिका एव । धातोराम् स्यात् , कृश्चानुप्रयुज्यत इत्युक्तसमुच्चयाथेश्वकारः । ननु कृम एवानुप्रयोगश्रवणात् कथं भ्वस्त्योरप्यनुप्रयोग इत्यत आह प्राम्प्रत्ययवदित्यादिना । 'कृश्यानुप्रयुज्यते-' इत्यत्र कृम एकस्यैवानुप्रयोगविधौ सति 'अाम्प्रत्ययवत्-' इति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृत इति विशेषणं व्यर्थ स्यात् । धात्वन्तरस्यानुप्रयोगाप्रसक्केः । ततश्च कृम इति विशेषणादन्यस्यापि अनुप्रयोगो विज्ञायत इत्यर्थः । ननु कृमोऽन्यस्याप्य. नुप्रयोगो विज्ञायताम् , भ्वस्त्योरपीत्येव कुत आयातमित्यत आह तेनेति । कृन्प्रहणेनेत्यर्थः । प्रत्याहाराश्रयणादिति । एतच्च भाज्ये स्पष्टम् । नन्वनुप्रयुज्यमानानां कृभ्वस्तीनां पाम्प्रकृतिभूतानां च कथमन्वय इत्यत पाहतेषामित्यारभ्यानिघातच तिङन्तस्पेत्यर्थः । न चातिङन्तत्वे पदत्वाभावादामन्तात्परस्य निघातो न सिध्यतीति शङ्कयम् , लिटः कृत्त्वात्प्रत्ययलक्षणेन कृदन्ततया प्रातिपदिकत्वे सोरुत्पत्तावामन्तस्याव्ययत्वात्सुपो लुक्यपि प्रत्ययलक्षणेन सुबन्ततया पदत्वात् । कृञ्चानुप्रयुज्यते । कथं तहिं 'तं पातयां प्रथममास पपात पश्चात्' । 'प्रभ्रंशयां यो नहुषं चकार' इति । प्रमाद एवायम् । न च विपरीतप्रयोगनिवृत्तिमात्रे सूत्रस्य तात्पर्यात् पश्चात्प्रयोगो व्यवहितोऽपि न दुष्यतीति वाच्यम्, विपर्यासनिवृत्त्यर्थ व्यवहितनिवृत्त्यर्थ चेति वार्तिकविरोधात् । अन्यापीति । यदीह कृष्शब्देन एक एव धातुर्गुह्येत तदा धात्वन्तरस्य प्राप्त्यभावाद् 'अाम्प्रत्ययवत्-' इति सूत्रेऽनुप्रयुज्यमानस्य कृष इति विशेषणं व्यर्थ स्यादिति भावः । न चात्र 'कृञ् च-' इति चकारेशैवानुप्रयोगोऽन्यस्यापीति ज्ञायत इति शङ्कयम् , धातोराम् स्यात् , अनुप्रयुज्यते च